________________
जइ-जीयकप्पो
खलिअस्स य सव्वत्थ वि हिंसमणावज्जओ जयंतस्स ।
सहसाणा भोगेण व मिच्छाकारो पडिक्कमणं ।। ११॥
व्याख्या - एकं पूर्वगाथाद्वयोक्तातिचारस्थानेषु अन्यत् सहस' त्ति सहसाकारोऽविमृश्यकरणम्, तथाधुवं अपासिऊणं छूढे पाए कुलिंगि जं पासे । न य तरइ निअत्तेउं जोगं सहसाकरणमेअं' ।।
A
(नि० भा० ९७, व्य०सू० ४०३६ ) अनाभोगोऽत्यन्तं विस्मृतिः । ताभ्यां सहसाकाराना भोगाभ्यां स्खलितस्य च अतिचारयोग्यतां प्राप्तस्य च सर्वत्रापि दर्शनज्ञानचारित्रतपःप्रभृतिचतुर्विंशतिपदेष्वपि यतमानस्य हिंसामनापद्यमानस्य अविराधितजीवस्य मिथ्याकारो मिथ्यादुष्कृतदानं प्रतिक्रमणं प्रतिक्रमणार्हप्रायश्चित्तं शुद्धिकृद् भवति ।। ११ । । तथा— आभोगेण वि तणुएसु नेहभयसोगबाउसाईसु । कंदप्पहासविगहाइएसु नेअं पडिक्कमणं । । १२ ।।
व्याख्या - आभोगेनापि परिस्फुटबुद्ध्यापि अविस्मृत्यापीत्यर्थः । तनुकेषु स्तोकेषु स्नेहभयशोकबाकुश्यादिषु । तत्र स्नेहो मातापितृस्वजनेषु भाक्तिक श्रावकजनेषु वा भयं सप्तविधम् इहपरलोकाऽऽदानाऽकस्मादाऽऽजीवमरणाऽश्लोकरूपम्, शोकः सचित्ताचित्तमिश्रद्रव्याणामिष्टानां वियोगेनाऽनिष्टानां संयोगेन, बाकुश्यं बकुशत्वं कश्मलचारित्रत्वम्, ग्लानत्वादिकारणं विनाऽपि हस्तपादादिक्षालन शीलत्वेन, आदिशब्दात् पार्श्वस्थाऽवसन्नसंसक्तकुशीलत्वानि गृह्यन्ते । कन्दर्पहासविकथादिकेषु । कन्दर्पः प्राग् व्याख्यातः, हासादयः प्रतीताः, आदिशब्देन कषायविषयानुषङ्गा गृहीताः । ततः सर्वेष्वप्येतेषु तनुकेषु कृतेषु ज्ञेयं ज्ञातव्यं प्रतिक्रमणं प्रतिक्रमणार्हाऽऽख्यं प्रायश्चित्तम् । अत्राह शिष्यः - ननु कन्दर्पहासविकथाकषायविषयानुषङ्गाः प्राग्गाथायामपि प्रतिक्रमणार्हप्रायश्चित्तयोग्यत्वेनोक्ताः किं पुनरिहोच्यन्ते ? । गुरुराह - सहसाकाराऽनाभोगाभ्यां पूर्वगाथा - त्रयातीचारस्थानानि ज्ञेयानि एकवाक्यत्वात् । इह त्वाऽऽभोगेनाऽपि कन्दर्पाद्यास्तनुकाः कृताः प्रतिक्रमणार्ह - प्रायश्चित्तशोध्या भवन्तीति न पौनरुक्त्यमिति ।।१२।।
उक्तं प्रतिक्रमणार्हम् । इदानीमुभयार्हमुच्यते—
संभमभयाउरावइ सहसाणा भोगाणप्पवसओ वा । सब्ववयाई आरे तदुभयमासंकिए चेव ।।१३।।
व्याख्या - सम्भ्रमः संक्षोभः करिसरित्पूरशार्दूलदवानलादेः । भयं चौरबन्दिकम्लेच्छादेः । आउर' भावप्रधानत्वान्निर्देशस्य आतुरत्वं पीडितत्वं क्षुत्पिपासाद्यैः । आपच्चतुर्धा द्रव्यक्षेत्रकालभावैः । तत्र द्रव्यात् कल्पनीयाऽशनादिद्रव्यदुर्लभता १ । क्षेत्रापत् प्रत्यासन्नग्रामनगरादिरहितमल्पं च क्षेत्रम् २ | कालापद् दुष्कालादि
A. विकलेन्द्रियम् । B. कल्पिकप्रतिसेवनायाः २४ स्थानेषु ।