________________
A
जई - जीयकप्पो कोऽप्याख्यच्चित्रमत्र स्त्री—तुरङ्गममुखीक्ष्यते । साधुभिर्दर्शयत्युक्तः शठो दर्शयतेऽर्वतीम् ।।२७।।११, पृष्टः केनापि कोऽप्याऽऽर्य ! भिक्षाचर्यां गमिष्यसि ? । यास्याम्यवश्यं तेनोक्ते स तं यानाह्वदेहि भोः ! ।। २८ ।। स प्रत्यूचे न गच्छामि यावद्वेला न जायते । वेलायां तु गमिष्याम्यवश्यं दिवि शिवेऽथवा ।।२९।।१२, साधुरेकः परेणोक्तः क्व त्वं भिक्षामटिष्यसि ? । पूर्वस्यामिति तेनोक्तः पृच्छकः पश्चिमां गतः ।। ३०।। सोऽपि तत्राऽऽगतः पृष्टः किं न वागऽनुगा क्रिया ? सोऽवादीत् किं न पूर्वेषाऽपरग्रामव्यपेक्षया ? ।। ३१।। १३, भिक्षाचर्याप्रवृत्तेनाऽऽहूतः केनाऽपि कोऽप्यृषिः । जगाद त्वं व्रजैकस्मिन्नेव गच्छाम्यहं कुले ।।३२।। सोऽप्यथाऽनेकगेषु पृष्टोऽटँस्तेन गीतवान् । समकालमनेकेषु किं गच्छन्नस्मि वेश्मसु ? ।।३३।।१४, यामो भिक्षार्थमागच्छेत्युक्तोऽन्योऽन्येन साधुना । वक्ति स्म त्वं व्रज द्रव्यमेकमेवाहमाददे ।।३४।। ततो बहूनि द्रव्याणि गृह्णन् पृष्टोऽवदत् स तान् । तत् पुद्गलाऽस्तिकायाख्यमेकमेवाखिलैः परैः ।। ३५ ।। १५, (नि० भा० ३०० तः ३१६, बृ०क० ६०६८ तः ६०८७) एते पञ्चदश लघुकमृषादृष्टान्ताः । लघुकाऽदत्तं पुनरननुज्ञापिततृणलेष्टुक्षारमल्लकलेपाऽल्पकालिकवृक्षादिछायाविश्रामणादिविषयम् । लघुकमूर्च्छा सूक्ष्मममत्वरूपा । सा च द्रव्य - क्षेत्र - काल—भावभेदाच्चतुर्द्धा । तत्र द्रव्यतः शय्यातरगृहादौ काकश्वानगवाद्युपद्रवं लघुकल्पस्थकादिकं च रक्षति । क्षेत्रतः प्रतिक्रमणसंस्तारकादि— स्थानकुलवसतिग्रामनगरराज्यादिषु । कालतो मासकल्पोपरि निवासादौ । भावतोऽल्परागाद्यध्यवसायात्मिका । इह च यत्र यत्र पञ्चकादिलघुमासान्ताऽऽपत्तिस्तत् सर्वं लघुमृषादत्तमूर्च्छारूपं प्रतिक्रमणार्हस्थानमध्ये गृह्यते ।। ९ ।। तथा —
अविहीइ कासजिंभिअ - खुअवायासंकिलिट्टकम्मेसु । कंदप्प-हास - विगहा – कसाय - विसयासंगेसु
व्याख्या - कासजृम्भितक्षुतवाताऽसक्लिष्टकर्मसु । इतरेतरद्वन्द्वः । कासजृम्भितक्षुतानि प्रतीतानि । वातो द्विधा - ऊर्ध्ववात उद्गाररूपः, अधोवातस्तु अपानजः । तत्र कासजृम्भितक्षुतोद्वारा मुखे मुखवस्त्रिकां हस्तं वा दत्त्वा विधेयाः । अधोवातनिर्गमे च करेणैकपुतावकर्षणं कार्यं येन महान् कुत्सितशब्दो न भवति । अन्यथा त्वविधिः । असक्लिष्टकर्म पुनः सङक्लेशः कर्मबन्धस्तस्य यन्न कारणं तदसङ्क्लिष्टकर्म छेदनभेदन— घर्षणपीडनाभिघातसिञ्चनकायक्षाराद्यनेकविधम् । छेदनं कुष्ठादिशरीरविक्रियायां दुष्टाङ्गस्य । भेदनं दुष्टव्रणस्य, घर्षणं दन्तादेः, पीडनं पीडयित्वा शिरामोक्षणादिना रुधिरस्य निष्कासनम्, अभिघातसेचनं अभिघातो लगुडादिप्रहारस्तस्योष्णजलादिना सेचनम्, कायक्षारः प्रसूत्यादौ काये क्षाराभियोजनम् । एष्वविधिना कृतेषु । कन्दर्पो वाचिको नर्माऽऽलापादिरूपः, कायिको धावनादि, हासविकथाकषायविषयाः प्रतीताः । तेषामनुषङ्ग आसेवनं तेषु । तथा
A. 'घोडी ' इति भाषायाम् । B. लघुबालकादिकम् ।
।।१०।।