________________
जइ-जीयकप्पो प्रापैवं निह्नवात् शुक्लमासार्ह स लघु मृषाम् । यत्र यत्रेदृगापत्तिस्तत्र तत्र लघुम॒षा ।।२।। १, साधुः कार्येण केनापि प्रस्थितः कोऽपि वर्षति । भणितः साधुनान्येन किं व्रजस्यार्य ! वर्षति ।।३।। बभाषे प्रस्थितः साधु ऽहं गच्छामि वर्षति । इत्युक्त्वाऽपि परं वर्षत्येव प्रस्थितवाँस्ततः ।।४।। साधुनोचे मृषा वक्षि सोऽवोचद् वच्मि नाऽनृतम् । वृष्टिरााय सा नेयं नन्वेते वर्षविपुषः ।।५।।२, साधुः कार्याद्गतः कोऽप्याऽऽश्रयमागत्य जल्पति । निर्यात भुअते विप्रास्तत्राऽस्माभिरपीयते ।।६।। प्रस्थिताः साधवोऽटित्वाऽऽयाताः पृच्छन्ति तं क्व ते ? । भिक्षाटनेऽपि नो दृष्टाः स ऊचे खस्ववेश्मसु ।।७।।३, कोऽप्यूचे मण्डलीकाले एहि भुवेति केनचित् । सोऽब्रवीद् यूयमश्नीत प्रत्याख्यातमहो ! मया ।।८।। इत्युदीर्याऽपि मण्डल्यामश्नाति स्म तदैव सः । किमेतदिति पृष्टोऽथ व्याचक्रे वक्रगीरिदम् ।।९।। ननु प्राणातिपाताद्या सर्वाप्यविरतिर्मया । प्रत्याख्यातैव सावद्या वितथं किमिहास्ति तत् ? ।।१०।।४, याता चैत्यादिकार्येण त्वं न यासीति केनचित् । कोऽप्युक्तो मुनिरूचे तं व्रज त्वं न व्रजाम्यहम् ।।११।। ततस्तस्मिन् गते सोऽपि सद्य एव तमन्वगात् । पृष्टस्तेनाथ नेत्युक्त्वा किं गच्छस्यथ सोऽभणत् ।।१२।। न त्वं जानासि सिद्धान्तं गम्यमानं गतं खलु । प्रश्नकाले स्थितोऽभूवमधुनाऽहं गतिक्रियः ।।१३।। ५, पृष्टो निनसुना कोऽपि पर्यायं यतिरूचिवान् । ममाऽस्य च दशाब्दानि निनंसुस्तं ततोऽगदत् ।।१४।। अहं नवाऽब्दपर्यायस्तत् त्वां वन्दे निषीद भोः ! । अथाऽऽचख्यौ स वन्यस्त्वं नाहं वन्द्योऽस्मि ते मुने ! ।।१५।। तेनोक्तं हेतुना केन सोऽभाणीद् भद्र ! शाठ्यतः । पञ्चाऽस्य पञ्च मेऽब्दानि मेलयित्वा दशाऽवदम् ।।१६।।६, कार्याद् बहिर्गतः कोऽपि विलोक्य ग्रहणं खेः । अधीयतो यतीनूचेऽद्भुतं भो ! भोजनक्षणः ।।१७।। उत्थिताः साधवः प्रात्तपात्राः पृच्छन्ति कुत्र सः । गगनेऽदर्शयत्तेषां राहुणा ग्रसनं रखेः ।।१८।।७, भणति स्माऽऽगतः कोऽपि विधाय प्रथमालिकाम् । अद्य सङ्घडिका बढ्यो भिक्षाकालेऽथ साधवः ।।१९।। पप्रच्छुः क्व क्व गेहे ता ? बभाषे च च्छलेन सः । एकेन्द्रियादयो जीवाः सङ्घण्ड्यन्ते गृहे गृहे ।।२०।।८, कोऽप्यूचे क्षुल्लकं दृष्ट्वाऽऽश्रयासन्नां मृतां शुनीम् । यथा क्षुल्लक ! माता ते मृताऽतो रोदिति स्म सः।।२१।। मा रोदीरस्ति जीवन्ती रुदन्तं च तमाह सः । अथ तं क्षुल्लकोऽन्ये च स्माहुब्रूष कथं द्विधा ? ।।२२।। स उवाचाऽस्य शुन्येषा कदाऽप्यम्बाऽभवद् यतः । जीवाः सर्वे भवेऽनादौ बभूवुः सर्वनात्रकैः ।।२३।।९, उद्याने कोऽपि पार्श्वस्थान् दृष्ट्वाऽऽगत्याऽवदन् मया । भोः ! पारिहारिका दृष्टास्तच्छुत्वाऽमोदि साधुभिः।।२४।। कीदृशास्ते महात्मानः परिहारतपस्विनः । गतास्तत्राथ तान् द्रष्टुं तावत् पश्यन्ति लैङ्गिकान् ।।२५।। पृच्छन्ति स्म ततस्तं ते स ददात्युत्तरं शठः । अभक्ष्यादिपरीहाराः किं नैते पारिहारिकाः ? ।।२६।। १०,