________________
जइ - जीयकप्पो डहरो अकुलीणुत्ति अ दुम्मेहो दमगमंदबुद्धित्ति । अवि अप्पलाभलद्धो सीसो परिभवइ आयरिअं' ।।
(नि०भा० ६२१०, बृ०क० ७७२) यद्वा-विधाऽऽशातना-मनसा प्रद्वेषादि, वाचा अन्तरभाषादि, कायेन गुरोः समश्रेण्या गच्छति पुरःस्थितो वा गच्छतीत्यादिका, तस्यां गुर्वाशातनायां । विनयो गुरोरभ्युत्थानासनदानाअलिप्रग्रहवन्दनादिस्तस्य भङ्गे । इच्छादीनामकरणे । इच्छाद्याश्चामीइच्छा मिच्छा तहक्कारो आवस्सिआ य निसीहिआ । आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा ।।
(पंचाशक ५/४६) उवसंपया य काले सामायारी भवे दसहा' ।। इच्छया बलाभियोगमन्तरेण करणं इच्छाकारः । यथा-इच्छाकारेण स्वेच्छया धर्मार्थितया मुने ! ममेदं पात्रलेपादि कुरु न बलादिति । १। मिथ्याकरणं मिथ्याकारः । संयमयोगवितथाचरणे वदन्ति जिनवचनतत्त्ववेदिनो मुनयो यथा-मिथ्यादुष्कृतमिति । इदं दुष्कृतं मिथ्या-वितथमनृतमित्यर्थः।२। तथाकरणं तथाकारः गुरोः किमपि कथयतो यथापूज्यैरुक्तं तथैवेदमित्येवंरूपः।३। अवश्यकार्यैः योगैर्निष्पन्ना आवश्यकी वसतेर्निर्गच्छद्भिर्या विधीयते ।४ । निषेधेन निर्वृत्ता नैषेधिकी वसतौ प्रविशद्धिा क्रियते।५। आपृच्छनमापृच्छा सा विहारादिकार्येषु गुरोर्विधया ।६। प्रतिपृच्छा प्राग् नियुक्तेनापि कार्यकरणकाले कार्या निषिद्धेन वा पुनः कार्यं कर्तुकामेन ।७। छन्दना प्राग् गृहीतेनाऽशनादिना कार्या, यथा-इदं पूज्या गृह्णन्तु ।८। निमन्त्रणा अगृहीतेनाऽशनादिना, यथा-इदमद्य पूज्यानां योग्यमशनाद्यानयामीत्येवंरूपा। ९ । तथा चोक्तम्आपुच्छणा उ कज्जे पुबनिसिद्धेण होइ पडिपुच्छा । पुवगहिएण छंदणं निमंतणा अगहिएणं' ।।
(ओ०नि० ६९७) उवसंपच्च ज्ञानदर्शनचारित्रार्थं विधेया । १०। एतासामकरणे । तथा लहुस'त्ति । सकार आर्षत्वादल्पवाचककप्रत्ययार्थः । ततो लघुकमृषाऽदत्तमूर्छासु । तत्र लघुकमृषास्वरूपसूचकदृष्टान्तगाथे इमेपयला उल्ले मरुए पच्चक्खाणे अ गमण परिआए । समुद्देस संखडीओ खुड्डग परिहारिअ मुहीओ ।। अवसगमणे दिसासु एगकुले चेव एगदब्वे अ । एए सबेवि पया लहुसमुसाभासणे हुंति' ।।
__ (बृ०क० ६०६६-६०६७, नि०भा० २९८-२९९ तथा ८८२-८८३) पयला निद्राविशेषः, उल्लं वर्षणं, मरुया विप्राः, शेषं स्पष्टम् । एतद्गाथाद्वयोक्तदृष्टान्ताश्च श्लोकैरुच्यन्ते। तथाहिकोऽपि साधुर्दिवा धूर्णन्निद्रयाऽन्येन साधुना । उक्तो निद्रासि किं भद्र ! न निद्रामीति सोऽवदत् ।।१।।
१२