________________
जइ - जीयकप्पो अल्पशब्दोऽभाववाची, तेन मूलगुणेषु विराधना अल्पा न काचित्, उत्तरगुणेष्वप्यल्पा न काचित् । पार्श्वस्थाऽवसन्नादिषु दानग्रहाभ्यां सम्प्रयोगः सम्पर्कः सोऽप्यल्पः सोऽपि नासीदित्यर्थः । इयमोघालोचना । यस्तु पक्षाभ्यन्तरागतोऽपि समुद्देशानन्तरमालोचयति यो वा पक्षात् परतः समागतः समुद्देशादर्वागप्याऽऽलोचयति, तयोर्निरतिचारयोरपि विभागालोचना-विशेषालोचना सुव्यक्तनिश्शेषनिजानुष्ठितनिवेदनरूपा । यस्तु तक्षशिलायां धर्मचक्रस्य, मथुरायां स्तूपस्य, पुरिकायां जीवत्स्वामिप्रतिमायास्तीर्थकृज्जन्मनिष्क्रमणज्ञाननिर्वाणभूमीनामयोध्यादीनां दर्शनार्थं स्वजनगोकुलविवाहादिसङ्घडिकाप्रेक्षार्थं यत्र विशिष्टाहारोपधी लभ्येते तत्र तल्लिप्सया रम्यदेशदिदृक्षादिना वा गुर्वनादेशाद् विनिर्गतोऽकारणविनिर्गतस्तस्य सातिचारत्वेन बृहत्तरप्रायश्चित्तशोध्यत्वान्नालोचनामात्रेण शुद्धिः । तथा स्वगणात् साम्भोगिकरूपादेकमण्डलीभोजिनः परगणाद् विसंभोगिकाद् अमण्डलीभोजिनः उभयतोऽपि संविग्नाऽसंविग्नरूपादागतस्यापि च निरतिचारस्य अवसंपय'त्ति उपसम्पद्यमानस्य, सा चोपसम्पत् पञ्चधा-श्रुतग्रहणायाऽन्यमाचार्यमुपसम्पद्यमानस्य श्रुतोपसम्पत् । १। सुखं दुःखं वा मया भवद्भिः सह सोढव्यमिति सुखदुःखोपसम्पत् ।२। अत्र क्षेत्रे तिष्ठतो मम युष्मदीया निश्रेति क्षेत्रोपसम्पत् ।३ । मार्गे व्रजतो मम यौष्माकी निश्रेति मार्गोपसम्पत् ।४। विनयं कर्तुं गच्छान्तरमुपसम्पद्यमानस्य विनयोपसम्पत् ।५। भाष्यकृताऽप्युक्तम्अवसंपय पंचविहा सुअ सुहदुक्खे अ खित्तमग्गे अ । विणओवसंपयावि अ पंचविहा होइ नायबा' ।। एतासामन्यतरामुपसम्पदं प्रथममाददानस्य विभागालोचना भवति । विहार'त्ति । विहारे कृते निरतिचारस्याऽप्यालोचना भवति । अयं भावः-एकाहात् पक्षाद् वर्षाद्वा यदा साम्भोगिकाः स्पर्द्धकपतयो गीतार्थाऽऽचार्या मिलन्ति, तदा निरतिचारा अप्यन्योऽन्यस्य विहारालोचनां स्वस्वविहारक्रमानुष्ठितप्रकाशरूपां ददतीति ।।८।। व्याख्यातं प्रथममालोचनाहँ प्रायश्चित्तम् । सम्प्रति प्रतिक्रमणाहमुच्यते-येषु स्थानेषु स्खलितस्य मिथ्यादुष्कृतयोग्यता भवति तान्याह
गुत्तीसमिइपमाए गुरुणो आसायणा विणयभंगे ।
इच्छाईणमकरणे लहुसमुसादिन्नमुच्छासु ।।९।। व्याख्या-गुप्तिसमितिप्रमादादिस्थानेषु मिथ्याकारः प्रतिक्रमणमिति तृतीयगाथान्ते सम्बन्धः । गुप्तिसमितीनां प्रमादो-मनसा दुश्चिन्तितादिः, वचसा दुर्भाषितादिः, कायेन दुश्चेष्टितादिः । ईर्यायां कथां कथयन् गच्छेत्, भाषायां ढड्ढरंगिरा गृहस्थभाषया भाषेत, एषणायामनुपयुक्तो भिक्षामाददीत, आदाननिक्षेपे प्रमार्जितादि विस्मार्य आदानं निक्षेपं वा कुर्यात्, उत्सर्गसमिती स्थण्डिलमप्रमृज्य प्रश्रवणादि त्यजेत् । एवंविधगुप्तिसमितिप्रमादे । तथा गुरोराशातना-आयो-ज्ञानादिलाभस्तस्य शातना खण्डना आशातना । यथाA. महाध्वनिभाषया ।