________________
जइ - जीयकप्पो साधूनां निश्रया क्रियमाणं निश्राकृतम् ।४। तदनिश्रया विधीयमानमनिश्राकृतम् ।५। तस्य द्रव्यंहिरण्यस्वर्णादिकं काष्ठोपलेष्टकादिकं वा तस्योपद्रवस्तन्निवारणार्थम्। अयमभिप्रायः- सति सामर्थ्य चैत्यद्रव्योपद्रवमुपेक्षमाणः साधुरपि अनन्तसंसारितादण्डभाजनं भवति। अतस्तदर्थमपि बहिनिर्गमः करणीययोग एव ।।६।। किमेतावन्त एव करणीययोगा आहोश्विदन्येऽपि सन्ति ? इत्याह
जं चन्नं करणिज्जं जइणो हत्थसय बाहिरायरिअं।
अविगडिअंमि असुद्धो आलोअंतो तयं सुद्धो ।।७।। व्याख्या- यच्च पूर्वगाथोक्तकरणीयव्यापारेभ्योऽन्यद् यतेः करणीयं क्षेत्रप्रतिलेखनस्थण्डिलान्वेषणशैक्षनिष्क्रमणाऽऽचार्यसंलेखनादि हस्तशताद् बहिराचरितं, तस्मिन् पूर्वोक्ते च करणीययोगनिवहे अविकटिते गुरोरप्रकाशितेऽनालोचिते अशुद्धः । समित्याद्यतिचारलेशवान् आलोचयस्तं करणीययोगनिवहं शुद्धः । आलोचनाख्यप्रायश्चित्तेन समित्याद्यतिचारलेशनिवर्त्तनात् । हस्तशताऽभ्यन्तराचरितं तु किञ्चित् प्रश्रवणादिकमालोच्यते किञ्चिच्च खेलसिङ्घानजल्लनिवेशनोत्थानविजृम्भणाऽऽकुञ्चनप्रसारणोच्छ्वासनिःश्वासचेष्टादिकं नालोच्यते । अत्राह शिष्यः-करणीययोगेष्वाहारादिग्रहणार्थेषु यथोक्तविधिना कृतेष्वपि यद्यालोचनाप्रायश्चित्तयोग्यता भवति तर्हि किमपि न कर्त्तव्यम्, व्रतमादाय प्रथममेव सर्वैरपि अनशनं कार्यम् । गुरुराह-तन्न, एवं सति तीर्थोच्छेदः स्यात् कः केन प्रतिबोधयिष्यते ? किञ्च न खलु मालिन्याशङ्कया वस्त्राणि न परिधीयन्ते । अपरिधाने हि विवस्त्रतया सर्वेषां पशुरूपतापत्तिः ततः परिधीयन्त एव । जातमालिन्यानि च जलेन प्रक्षाल्य निर्मलीक्रियन्ते । एवं चारित्रमपि करणीययोगकरणे सतातिचारलेशमलमालोचनाप्रायश्चित्तजलेन विशोध्य निर्मलीकार्यम् ।।७।। अतिचारलेशवतोऽपि तच्छुद्धये भवत्वालोचना, परं निरतिचारस्य किम् ? इत्याह
कारणविणिग्गयस्स य सगणाओ परगणागयस्स वि अ।
उपसंपया विहारे आलोअण निरइआरस्स ।।८।। व्याख्या-कारणेन अशिवदुर्भिक्षराजादिप्रत्यनीकत्वग्लानोत्तमार्थिकाऽऽराधनादिना गुवदिशाद् विनिर्गतः कारणविनिर्गतस्तस्य निरतिचारस्याऽप्यविराधितसमितिगुप्तिकस्याऽप्यालोचना भवति । सा च द्विधा-ओघतो विभागतश्च । तत्र यः कारणविनिर्गतः पक्षाऽभ्यन्तरे समागच्छति । आगतमात्रश्चेर्यापथिकी प्रतिक्रम्य समुद्देशवेलाया अवगिवाऽऽलोचयति तस्याऽप्योघालोचनामात्रं भवति । यथाअप्पा मूलगुणेसुं विराहणा अप्पउत्तरगुणेसुं । अप्पा पासत्थाइसु दाणग्गहसंपओगोहा' ।।
(नि०भा० ६३१६)
A. भोजनवेलायाः ।