________________
जइ-जीयकप्पो तत्र आ-ईषल्लीन आलीनः । बहुतरं लीनः प्रलीनः। भाष्ये तु'अल्लीणा नाणाइसु पइ पइ लीणाओ हुंति पल्लीणा । कोहाई वा पलयं जेसि (सिं) गया ते पलीणा उ' ।।
(व्य०सू० ४४९४, जी०भा० ६६५) तथा- 'भूमावघर्षयन् पादं यद्वा रीयेत कार्यतः । अग्रपादादिना देशे कीटिकायाकुले पुनः' ।। हितं मितं प्रियं सत्य-मनवयं विमृश्य च । यन्मुनिर्वक्ति वाग्योगः सैष तमिवर्जनात् ।। मनोयोगः पुनरयं मनसः कुशलस्य यत् । उदीरणं निरोधश्चा-ऽकुशलस्य पुनः सदा ।। तेषूपयुक्तस्य निरतिचारस्याऽदुष्टभावस्य छद्मस्थस्य परोक्षज्ञानिनः श्रुतज्ञानानुसारेणैवाऽशेषक्रियाकलापानुष्ठानपरायणस्य यतेर्विशुद्धिरालोचना भणिता तीर्थकरगणधरैः ।।५।। अत्राह शिष्यः-निरतिचारो यतिः करणीयान् योगान् करोति ततः किमालोचनया विशोध्यम् ? गुरुराहसूक्ष्मा आश्रवक्रियाः सूक्ष्मप्रमादनिमित्ता अविज्ञातास्तासामालोचनामात्रेण शुद्धिः । स पुनर्गुरुसन्दिष्टोऽसन्दिष्टो वा कार्यस्याऽऽदौ समाप्तौ वा आलोचयति । करणीययोगान्नामग्राहमाह
__ आहाराइग्गहणे तह बहिआ निग्गमेसु णेगेसु ।
उच्चारविहारावणि-चेइअजइवंदणाईसु ।।६।। व्याख्या-आहारः अशनपानखाद्यस्वाद्यरूपः, स आदिर्येषां ते आहारादय आदिशब्दात् शय्यासंस्तारकपादप्रोञ्छनवस्त्रपात्राद्या औधिकौपग्रहिकोपधयः । तथा च'ओहेण जस्स गहणं भोगो पुण कारणे स ओहोही । जस्स य दुर्गपि निअमा कारणओ सो उवग्गहिओ' ।।
(पंचवस्तुकम् ८३८) आचार्यग्लानबालदुर्बलशैक्षक्षपकाऽसहिष्णुप्रायोग्यौषधादयश्च गृह्यन्ते । तेषां ग्रहणमाहारादिग्रहणं तस्मिन्। तथा बहिर्निमिषु अनेकेषु उच्चारविहारावनिचैत्ययतिवन्दनादिषु । बहिः बहिस्तात् शय्याया गुरुपाद्विा उच्चारावनौ सञ्ज्ञाभूमौ विहारावनौ स्वाध्यायभूमौ चैत्यवन्दनार्थं दूरमासन्नं वा यतीनामपूर्वबहुश्रुतसंविग्नानां वन्दनार्थं तत्पाघे संशयोच्छेदनार्थं वा, आदिशब्दात् श्रावकसन्तानिकाऽवसन्नविहारिश्रद्धासंवर्द्धनार्थम् साधर्मिकाणां वा संयमोत्साहनार्थम् । अथवा पीठफलकादिप्रत्यर्पणार्थम् । यद्वा-कुलगणसङ्घानां चैत्यद्रव्यस्य चोपद्रवनिवारणार्थं निर्गमाः स्युस्तेषु । 'तत्थ कुलं विण्णेअं एगायरिअस्स संतई जाओ । तिण्ह कुलाणमिहो पुण साविक्खाणं गणो होई ।। सङ्घः प्रतीतः, चैत्यं पञ्चधा-यथा वारत्तकमहर्षेः पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरणमुखवस्त्रिकाप्रतिग्रहधारिणीं पितुः प्रतिमामचीकरत् तदेव तत्साधर्मिकचैत्यम् । १। मथुरादिस्थानेषु गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमा प्रतिष्ठाप्यते अन्यथा तद्गृहं पतति तन्मङ्गलचैत्यम् ।२। शाश्वतचैत्यं-नन्दीश्वरादिव्यवस्थितम् ।३। भक्तिचैत्यं-भक्त्या क्रियमाणं जिनायतनम्, तद्विधाA. प्रतिकूलः ।