________________
जई - जीयकप्पो
I
एतासां व्याख्या - पुलाकादीनां स्वरूपं च व्याख्याप्रज्ञप्तेरवसेयम् । आलोचना 9 प्रतिक्रमणं २ मिश्रं ३ विवेकः ४ तपः ५ व्युत्सर्गः ६ एतानि षट् प्रायश्चित्तानि पुलाके । तथा बकुश - प्रतिसेवकयोः - बकुशस्य प्रतिसेवनाकुशीलस्य च सर्वाण्यपि दशापि प्रायश्चित्तानि भवन्ति । तौ च बकुशप्रतिसेवनाकुशीलौ स्थविराणां कल्पे भवतः । जिनकल्पे, उपलक्षणमेतत् यथालन्दकल्पे च । नवरं जिनकल्पे यथालन्दकल्पे च तयोः प्रायश्चित्तमष्टधा भवति, अनवस्थाप्यपाराञ्चिकयोरभावात् । आलोचनाप्रायश्चित्तं विवेकप्रायश्चित्तमित्येते द्वे प्रायश्चित्ते निर्ग्रन्थस्य भवतः । स्नातकस्य केवल एको विवेकः । एवमेताः पुलाकादिषु प्रतिपत्तयः । सामायिकसाध्वादीनां पञ्चानां यानि यस्य भवन्ति तान्यप्युच्यन्ते
'सामाइअसंजयाणं पच्छित्ता छेअमूलरहिअट्ठ । थेराण जिणाणं पुण तवमंतं छव्विहं होइ' ।। ( व्य०सू० ४१६९, जी० भा० २८६ ) सामायिकसंयतानां स्थविराणां स्थविरकल्पिकानां छेदमूलरहितानि शेषाण्यष्टौ प्रायश्चित्तानि भवन्ति । जिनानां जिनकल्पिकानां पुनः सामायिकसंयतानां तपः पर्यन्तं षड्विधं प्रायश्चित्तं भवति । 'ठेओवट्ठावणिए पायच्छित्ता हवंति सव्वेवि । थेराण जिणाणं पुण मूलंतं अट्ठा होई' ।। (व्य०सू० ४१७०, जी० भा० २८७ ) छेदोपस्थापनीये संयमे वर्त्तमानानां स्थविराणां सर्वाण्यपि प्रायश्चित्तानि । जिनकल्पिकानां पुनर्मूलपर्यन्तमष्टधा भवति । 'परिहारविसुद्धीए मूलंता अट्ठ हुति पच्छित्ता । थेराण जिणाणं पुण छव्विह छेदाइवज्जं च' ।। ( व्य० सू० ४१७१, जी० भा० २८८ ) परिहारविशुद्धिके संयमे वर्त्तमानानां स्थविराणां मूलान्तानि अष्टौ प्रायश्चित्तानि भवन्ति । जिनानां पुनश्छेदादिवर्जं षड्विधम् ।
'आलोअणा विवेगो अ तइअं तु न विज्जई । सुहुमे अ संपराये अहक्खा तव य' ।। (व्य०सू० ४१७२, जी० भा० २८९ ) सूक्ष्मसम्पराये यथाख्याते च संयमे वर्त्तमानानां आलोचना, विवेक इत्येवंरूपे द्वे प्रायश्चित्ते भवतः । तृतीयं तु न विद्यते ।।४।।
'यथोद्देशं निर्देश' इति सविषयप्रथमप्रायश्चित्तनिरूपणायाह
करणिज्जा जे जोगा तेसुवउत्तस्स निरइआरस्स ।
छउमत्थस्स विसोही जइणो आलोअणा भणिआ । । ५ । ।
व्याख्या— करणीया अवश्यकर्त्तव्या ये योगाः प्रत्युपेक्षणादिक्रियारूपाः श्रुतोपदिष्टा अहोरात्रानुष्ठेयाः, संयमहेतवो यदि वा योगाः कायवाङ्मनोरूपाः । तथाहि'नित्यालीनप्रलीनाङ्गः कूर्मवन्मुनिपुङ्गवः । तिष्ठेत् प्रयोजनाभावे, काययोगोऽयमीरितः ’
11