________________
जई - जीयकप्पो तपसोऽपि प्रधानमङ्गं प्रायश्चित्तम्, आभ्यन्तरतपो भेदत्वात् तेन तज्ज्ञेयमेवेति द्वितीयगाथान्तेन योगः । तथा यच्च सामायिकादिबिन्दुसारान्तस्य ज्ञानस्य सारः सारभूतं चरणम्, तस्याऽपि सारो निर्वाणम्, परं च तच्चरणं ज्ञानदर्शनान्वितं प्रायश्चित्तेन शोधितं सत् निर्वाणसाधकं भवति, तेन कारणेन निर्वाणसाधकस्य चरणस्य शोधनार्थं चकाराज्ज्ञानदर्शनातिचारशुद्ध्यर्थं च तत् प्रायश्चित्तं मोक्षार्थिनाऽवश्यं ज्ञेयम् ।। २-३ ।। तद्भेदानाहतं दसविहमालोअणपडिकमणोभयविवेगवुस्सग्गे । तवछेयमूलअणवट्टया य पारंचियं चेव ।।४।।
व्याख्या-अन्वयः सुगमः । भावार्थं ब्रूमः - तत् प्रायश्चित्तं दशविधम् आलोचनार्हादि । तत्राऽऽलोचनार्हम्आ - मर्यादया
'जह बालो जंपतो कज्जमकज्जं च उज्जुअं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को अ' ।। (सड्ड-जीयकप्पो १३ ) इत्येवंरूपयाऽऽलोचनं गुरोः पुरतः प्रकाशनं तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदाऽऽलोचनार्हम्, तद्विशोधकं प्रायश्चित्तमप्युपचाराद् आलोचनार्हम् । एवं सर्वेष्वप्युपचारो द्रष्टव्यः । १ । यन्मिथ्यादुष्कृतमात्रेणैव शुद्ध्यति, न गुरोरालोच्यते, तत् प्रतिक्रमणार्हम् । २ । यच्च प्रतिसेव्य गुरोरालोच्यते, गुरूपदेशेन च विशुद्ध्यर्थं मिथ्यादुष्कृतं दीयते, तत्तदुभयार्हम् । ३ । यस्य चानेषणीयग्रहणादेर्विधिना परित्यागेनैव शुद्धिस्तद् विवेकार्हम् ।४ । कायचेष्टानिरोधोपयोगमात्रेणैव यद्दुःस्वप्नादिकमिव शुद्ध्यति, तद्व्युत्सर्गार्हम् । ५ । यत्र प्रतिसेविते निर्विकृत्यादि षाण्मासिकान्तं तपो दीयते, तत्तपोऽर्हम् । ६ । यथा शेषाङ्गरक्षार्थं व्याधिदूषितमङ्गं छिद्यते, एवं व्रतशेषपर्यायरक्षार्थमतीचारानुमानेन दूषितः पर्यायो यत्र छिद्यते, तत् छेदार्हम् ।७। यस्यां चाऽऽसेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलार्हम् । ८ । यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनवस्थाप्यः क्रियते पश्चाच्चीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते, तदनवस्थाप्यार्हम् । ९ । लिङ्गक्षेत्रकालतपोभिर्बहिष्कृतः तपसा अपराधस्य पारं - तीरमञ्चतीत्येवं साधुकारी ततो दीक्ष्यते यः स पाराञ्ची, पाराञ्च्येव पाराञ्चिकः, येन कर्मणा पाराञ्चिकः क्रियते, तत् पाराञ्चिकार्हम् ।१० । एष सङ्क्षेपतो भावार्थः । विस्तरस्तु दशानामपि प्रायश्चित्तानां स्वस्वविषयनिरूपणायां ज्ञेयः । इह प्रायश्चित्तानि दश, साधवश्च पुलाक - बकुश - कुशील - निर्ग्रन्थ- स्नातकभेदात् पञ्च । तत् कस्य तानि कियन्ति भवन्ति ? इत्युच्यते'आलोअण पडिकमणे मीसविवेगे तह विउस्सग्गे । तत्तो तवे अ छट्टे पच्छित्त पुलाकि छप्पे ।। बउसपडिसेवगाणं पायच्छित्ता भवंति सव्वेवि । थेराण भवे कप्पे जिणकप्पे अट्ठहा होइ ।। आलोअणा विवेगो वा निअंठस्स दुबे भवे । विवेगो उ सिणायस्स एमेआ पडिवत्तिओ' ।।