SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जई - जीयकप्पो ततोऽभिमुखोत्थानादिपञ्चके कृते अभ्यासकरणे पुनः सामर्थ्ये सत्यकृते प्रायश्चित्तम् । अञ्जलिकरणमपि षोढा पञ्चविंशत्यावश्यकयुक्तं वन्दनं १ शिरसा प्रणामकरणम् २ एकस्य द्वयोर्वा हस्तयोर्ललाटे योजनम् ३ बहुमानरसभरेण सरभसं नमो खमासमणाणमितिभणनम् ४ निषद्याकरणम् ५ एतेषां योगश्च ६ । उक्तं चदिअ पणमिअ अंजलि गुरु आलावे अ अभिग्गहनिसज्जा । संजोगविहिविभत्ता अंजलिपगहेवि छट्टाणा' ।। (नि० भा० २१०३) पार्श्वस्थस्य पुनरभ्युत्थाने अअलिकरणे च चतुर्लघुकाः । उपलक्षणत्वात् कुशीला - ऽवसन्न - संसक्तनियत-काथिक – दार्शनिक - मामाक - सम्प्रसारकाणां गृहस्थानां वाऽभ्युत्थाने अञ्जलिकरणे च चतुर्लघुकाः । संयतीनां च वन्दने चतुर्गुरु । किं मैथुनार्थी कुपितां वा प्रसादयतीति शङ्का च भवतीति । तत्र च प्रायश्चित्तं यथा—स्त्रीमैथुनशङ्कायां चतुर्गुरु, निःशङ्किते च मैथुने मूलम् । तथा पार्श्वस्था - ऽवसन्न - कुशीलसंसक्तादीनामन्यतीर्थिकानां गृहस्थानां वा वाचनादाने तेभ्यो वा वाचनाग्रहणे चतुर्लघु । अथवा - अर्थे च चतुर्गुरु । यथाछन्दानां सूत्रे चतुर्गुरु । यथाछन्दानाम् अर्थे षड्लघु । तथा पुरुषाणां स्त्रीवाचनायां चतुर्गुरु, स्त्रीणां च पुरुषवाचनायां चतुर्गुरु । पार्श्वस्थादीनामनेकदिनवाचनासु पुनः प्रायश्चित्तमिदम् — 'सत्तरतं तवो होइ ततो छेओ पहावई । छेएण छिन्नपरिआए तओ मूलं तओ दुगं' ।। (नि० भा० २७४८, बृ०क० ५४८६) सप्त दिनानि चतुर्लघुतपः, ततः एकं दिनं चतुर्लघुच्छेदः, ततः एकैकदिनं मूलाऽनवस्थाप्यपाराञ्चिकानि । अथवा - तपस्तथैव चतुर्लघुच्छेदः । सप्त दिनानि शेषाण्येकैकदिनं तथैव । अथवा तपस्तथैव षड्गुरुच्छेदः सप्त दिनानि शेषाणि तथैव । अथवा - चतुर्लघुतपः सप्त दिनानि ततश्चतुर्गुरुतपः सप्त दिनानि । ततः षड्गुरु सप्त दिनानि तत एते एव च्छेदाः सप्त सप्त दिनानि । ततो मूलानवस्थाप्यपाराञ्चिकान्येकैकदिनम् । अथवा - चतुर्लघ्वादीनि तपांसि तान्येव सप्त सप्त दिनानि । ततो लघुपञ्चकादिकाः षड्गुरुपर्यन्ताश्छेदाः प्रत्येकं सप्त सप्त दिनानि ज्ञातव्याः । ततो मूलानवस्थाप्यपाराञ्चिकान्येकैकदिनम् । पार्श्वस्थादिषु च वाचनादानादानयोर्वन्दन - दुष्टसंसर्गादयोऽनेकदोषाः । अन्यतीर्थिकगृहिभ्यो ग्रहणे मिथ्यात्वस्थिरीकरणं यथा ते तेषां समीपे गच्छन्तं दृष्ट्वा मिथ्यादृष्टयश्चिन्तयन्ति - इमे एव प्रधानतरा यत एतेप्येतेषां समीपे शिक्षन्ते । लोको 'दृष्ट्वा भणति - एतेषामात्मन आगमो नास्ति, परसत्कानि शिक्षन्ते, निस्सारं प्रवचनमित्यपभ्राजना । एवमादयो दोषाः । तेषां च दानेऽधिकरणादयो दोषाः । यः पुनर्गृही अन्यतीर्थिको वा ज्ञानदर्शनचारित्राणि प्ररूपयति जिनवचनं च रोचते यस्य, स्वपाषण्ड्येव स वाच्यते । तथा गृही परपाषण्डी वा प्रव्रज्याऽभिमुखो वाच्यते । श्रावको वा सूत्रतः षड्जीवनिकां यावदर्थस्तु पिण्डैषणाध्ययनं यावत् । पार्श्वस्थादिर्वा संविग्नविहारमभ्युपगतोऽभ्युगन्तुकामो वा वाच्यते । तथाऽन्यत्रालाभे सिद्धान्ताव्युच्छित्त्यर्थं
SR No.032471
Book TitleJai Jiyaappo
Original Sutra AuthorN/A
AuthorNaybhadravijay Gani
PublisherParam Dharm
Publication Year2013
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy