________________
जइ - जीयकप्पो कुर्वन्ति तत्र च कायविराधनातीव तां वा सञ्ज्ञां कायानामुपरि क्षिपन्ति । तथा असंसक्तग्रहणीकः साधुरुष्णे सञ्ज्ञां विसृजति । संसक्तग्रहणीः पुनः छायायाम् अथोष्णे व्युत्सृजति ततः चतुर्लघु । तथा दकेन जलेन सहिता मृत्तिका दकमृत्तिका तस्यां गमने, रक्तादिविकारे जलौकोमोचने सन्ध्यायामुत्सूरे सामाचार्यन्तरे पुनः कालवेलायां पानीयपाने चतुर्लघुकाः ।।२१९।। तथा
गुरुगो दगुल्लवत्थाइघट्टणे फुसिअमत्तगाइ लहू ।
सुत्थे वसओ वासुवरि गुरुग मासोवरिं लहुगा ।।२२०।। व्याख्या-दकेन जलेनार्दै भिन्नं यद्वस्त्रादि, आदिशब्दात् कम्बलादिपरिग्रहः तस्य घट्टने पर्शने गुरुको मासः । सृष्टमात्रकादौ । स्पृष्टे जलेन भिन्नमात्रकदण्डकाद्युपकरणे लघुमासः । स्पृष्टमात्रकादिघट्टने वा । तथा सौस्थ्ये अशिवाद्यभावे वर्षाकाले वर्षाकालस्य चतुर्मासकरूपस्योपरि एकत्र स्थाने वसतः तिष्ठतः साधोश्चत्वारो गुरुकाः । ऋतुबद्धकाले तु मासस्योपरि वसतो लघुकाश्चत्वारो भवन्ति । यतः-ऋतुबद्धवर्षास्वतिरिक्तं वसतो नियतवासो भवति । स च चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यक्षेत्राभ्यां नियतवासे चतुर्भङ्गी । तद्यथा-द्रव्यतः क्षेत्रतश्च नियतः १ द्रव्यतो नियतः क्षेत्रतस्त्वनियतः २ द्रव्यतोऽनियतः क्षेत्रतस्तु नियतः ३ द्रव्यतः क्षेत्रतश्चानियतः । तत्र संस्तारकद्विविधोपधिप्रस्रवणसञ्ज्ञाखेलमात्रकादीनि तान्येव द्रव्याणि कालद्वयातिक्रमे तस्मिन्नेव क्षेत्रे परिभुआनस्य तेष्वेव च कुलेष्वाहारं गृह्णानस्य प्रथमो भङ्गः । तान्येव संस्तारकादीनि द्रव्याणि अन्यत्र क्षेत्रे नीत्वा परिभुआनस्य द्वितीयो भङ्गः । तस्मिन्नेव क्षेत्रे वसतिस्वाध्यायभूमिसञ्ज्ञाभूमिकुलग्रामादिरूपे अन्यानि संस्तारकादीनि द्रव्याणि परिभुनस्य तृतीयो भङ्गः । चतुर्थस्तु शून्यो नियतवासमाश्रित्य । एवं कालभावाभ्यामपि चतुर्भङ्गी । कालतो भावतश्च नियतः १ कालतो नियतो भावतस्त्वनियतः २ कालतोऽनियतो भावतस्तु नियतः ३ कालतो भावतश्चानियतः ४ । तत्र ऋतुबद्धवर्षासु मासचतुर्मासातीतं वसतः श्राद्धशय्याभक्तपानादिषु च प्रतिबद्धस्य प्रथमः । कालद्विकातीतं वसतः श्राद्धादिषु अप्रतिबद्धस्य च द्वितीयः । कालद्वयनिर्गतस्यापि श्राद्धादिषु रागप्रतिबद्धस्य तृतीयः । चतुर्थः शून्यः । वृद्धनिमित्तं च वसन् बहुकालेनापि नियतवासी न भवति । वृद्धकार्यपरिसमाप्तौ तु उपरिष्टाद्वसन् नियतवासी भवति । तत्र द्रव्यं प्रतीत्य नियतवासे उत्कृष्टोपधौ फलके च चतुर्लघु । क्षेत्रं प्रतीत्य देशे राज्ये च चतुर्लघु । कालं प्रतीत्य वर्षातीते वृद्धवासातीते च चतुर्लघु । रागेण भावनियतवासे सर्वत्र चतुर्गुरु । शेषेषु द्रव्यादिषु प्रायो मासलघु । डगलकक्षारमल्लकेषु पञ्चकमिति निशीथे । बहिरऽशिवाऽवमबोधिकादिगाढभयमासकल्पप्रायोग्यक्षेत्राभावादिकारणैः पुनर्द्रव्यादिचतुर्विधमपि नियतं वसेन्न दोषः । तथा ज्ञानादिगुणपरिवृद्धिनिमित्तं नियतवासोऽपि न दुष्टः । यदुक्तम्गुणपरिवडिनिमित्तं कालातीते ण होइ दोसो उ । जत्थ उ बहिआ हाणी हविज्ज तहि ण विहरिज्जा ।।
(नि०भा० १०२४) ।।२२०।।