________________
जइ - जीयकप्पो कोऽप्यार्यिकाणां विधिना वर्त्तापकः ततः तस्य समर्प्य जिनकल्पं प्रतिपद्यते । अथ नास्त्यन्यो वर्त्तापकः तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किन्तु आर्यिका एव परिवर्त्तयतु । कुतः ? इत्याह अन्यस्य वर्त्तापकस्यासति अभावे जिनकल्पेऽपि प्रतिपद्यमाने हुर्निश्चये, चत्वारो गुरुकाः । आह-सकलकर्मक्षयाक्षुण्णकारणे जिनकल्पेऽपि प्रतिपद्यमाने किमेवं प्रायश्चित्तम् ? आह-यद्यस्मात्कारणात् जिनकल्पं प्रतिपन्नस्य या निर्जरा तस्याः सकाशात् विपुला निर्जरा यथावत् संयतीः परिपालयतो भविष्यतीति युक्तियुक्तमेव प्रायश्चित्तम् ।।२१७।। तथा
भिन्नमपेहे वसहीसयणासणदंडथंडिलकडीणं ।
सज्झायकालगोअरचरिआई अपडिकमणे अ ।।२१८।। व्याख्या-वसतिः उपाश्रयः शयनं शय्या आसनं पीठकादि दण्डो बाहुप्रमाणा यष्टिः स्थण्डिलं प्रस्रवणोच्चारादिव्युत्सर्जनभूमिः कटी वंशखण्डादिमयीद्वारपिधानम् । एतेषामप्रत्युपेक्षणे प्रत्युपेक्षणां प्रमार्जनां च विनापि व्यापारणे प्रत्येकं भिन्नमासः । तथा स्वाध्यायकालगोचरचर्याणामप्रतिक्रमणे स्वाध्यायकालगोचरचर्याप्रतिक्रमणविस्मारणे प्रत्येकं भिन्नमासः । अत्र च निशीथादिभाष्यगतानां श्रीजिनभद्रगणिक्षमाश्रमणप्रणीतजीतसूत्रगतानां सुविहितजनाचीर्णजीतसमाचारीगतानां च गाथानां तद्रूपाणामेव प्रायः सङ्गृहीतत्वात् क्वचित् किञ्चित् पदं पुनरुक्तमप्यदुष्टम् ।।२१८।। तथा
वरिसंताणि अभोगे लहुगा गुरुगा अकालसन्नाए ।
दगमट्टिजलुगमुअणे दगपिअणे लहुग सन्नाए ।।२१९।। व्याख्या-वर्षात्राण्याः कम्बल्या वर्षादौ जलादिविराधनायां सत्यामभोगे विनाशभयादिना अव्यापारणे चतुर्लघुकाः। अथवा वर्षति वृष्टिं कुर्वति वारिदे यदानीतं भक्तादि तस्य भोगे व्यापारणे चतुर्लघुकाः । अस्य पदस्यार्थोऽन्यथापि चिन्त्यः । अकालसञ्ज्ञायाम् अकाले रजन्यां सज्ञाया व्युत्सर्जने चतुर्गुरुकाः । तथा निष्कारणे मात्रके सज्ञां व्युत्सृज्य यः परिष्ठापयति तस्य मासलघु । मात्रके सद्भाव्युत्सर्जने चेमे दोषाः । शैक्षा गन्धेन दर्शनेन वा विपरिणामं व्रजेयुः जुगुप्सां वा कुर्युः । सागारिको वा दृष्ट्वा उड्डाहं कुर्यात् । अहो ! इमे अशुचयः सर्वलोकं विटालयन्तीति । भाजनभेदं वा विदध्यात् । ग्लानः पुनः सञ्ज्ञाभूमिगमनाऽसमर्थः बाढमाबाधितो वा सञ्ज्ञाभूम्यऽभावे वा पृथिव्यादिविराधनादिकारणे वा मात्रके सज्ञां व्युत्सृज्य परिष्ठापयन्नपि शुद्धः । विरुद्धस्थाने च सद्भाव्युत्सर्जने प्रायश्चित्तं तच्च विरुद्धस्थानं त्रिधा–आत्मसंयमप्रवचनोपघातकारिभेदात् । तत्रात्मोपघातकारि गृहादि तच्च परिगृहीतमपरिगृहीतं वा भवति । अपरिगृहीते मासलघु । परिगृहीते चतुर्लघु । ग्रहणाकर्षणादयश्च दोषाः । श्मशानादि प्रवचनोपघातकारि । तत्र चतुर्लघु । अशुचिस्थानसेविन एते कापालिका इवेति प्रवचनोपघातः। अङ्गारादिदाहस्थानादीनि संयमोपघातीनि । तत्र कायविराधनानिष्पन्नं प्रायश्चित्तम् । गृहादि विरुद्धस्थानेषु सञ्ज्ञाव्युत्सर्जन चैते दोषाः-दृष्टे छीप्यते प्रान्ताप्यते वाऽमत्रं वा पात्यते । अदृष्टे पुनरङ्गारादिदाहस्थानमन्यत् A. भाजनं = पात्रु' इति भाषायाम् ।