________________
जइ-जीयकप्पो
व्याख्या - गुरूणामाचार्याणां परिभोग्यस्योपधेरप्रतिलेखने षट्पदिकानामशोधने क्रमेण परिपाट्या विभज्य तासामग्रहणे च चत्वारो लघुका भवन्ति । उपलक्षणत्वात् प्रपन्नानशनग्लानतपस्विस्थविरप्राघूर्णकशैक्षाणामुपधेरप्रत्युपेक्षणे चतुर्लघुकाः । तथा आर्याणां संयतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः । यतः संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणे अनेकदोषाः सम्भवन्ति । तथाहि - संयतीं गृहस्थाद्वस्त्राणि गृह्णन्तीं दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत् । निर्ग्रन्थ्योऽपि भाटिं गृह्णन्तीति शङ्कते वा । गृहस्थो वा वस्त्राणि दत्त्वा मैथुनमवभाषेत प्रतिषिद्धे चैषामेव वस्त्राणि गृहित्वा उक्तं न करोतीत्युड्डाहं कुर्यात् । स्त्री च स्वभावेनाल्पसत्त्वा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि लोभ्यते, लोभिता चाऽकार्यमपि करोति । बहुमोहा च स्त्री, ततः पुरुषैः सह संलापं कुर्वत्या वस्त्राणि गृह्णन्त्याश्च तस्याः पुरुषसम्पर्कतो मोहो दीप्यते । उदाररूपां वा संयतीं दृष्ट्वा कार्मणादिना कश्चिद्वशीकुर्यात् । वशीकृता च चारित्रविराधनां करोति । तस्माद् निर्ग्रन्थीभिः गृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि किन्तु तासां तानि गणधरेण दातव्यानि । तत्रायं विधि :- संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिनानि स्थापयति । ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति । यदि नास्ति विकारस्ततः सुन्दरम् । एवं परीक्षामकृत्वा यदि ददाति तदा चतुर्गुरुकम् । तं च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति । गणिनी च संयतीनां विधिना ददाति । अथाचार्य : स्वयं तासां ददाति तदा चतुर्गुरुकम् । यतः काचिन्मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तम् । एषाऽस्येष्टा यौवनस्था च । एवमस्थाने स्थापयति । तस्मादाचार्येण प्रवर्त्तिन्या एव प्रदातव्यम् । आचार्यश्च संयतीवर्त्तापकः प्रथमभङ्गवर्त्ती अनुज्ञातो न शेषभङ्गत्रयवर्त्ती । ते चामी भङ्गाः - सहिष्णुरपि भीतपरिषदपि १ सहिष्णुर्न भीतपरिषत् २ असहिष्णुः परं भीतपरिषत् ३ असहिष्णुरभीतपरिषच्च ४ । तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्यक्षेत्रवस्त्रपात्रादीनामुत्पादनायां प्रभविष्णुः सहिष्णुरुच्यते । यस्य तु सर्वोऽपि साधुसाध्वीवर्गो भयान्न कामप्यक्रियां करोति स भीतपरिषत् । तत्र प्रथमभङ्गे वर्त्तमानः संयतीपरिवर्त्तने समुचितः शेषेषु त्रिषु भङ्गेषु वर्त्तमानो नानुज्ञातः । यदि परिवर्त्तयति तदा चतुर्गुरुकाः । यतो द्वितीयभङ्गे आत्मना सहिष्णुः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत् किमपि ताः करिष्यन्ति तत् सर्वमयमेव प्राप्नोति । तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गादीनि दृष्ट्वा यदाचरति तन्निष्पन्नम् । चतुर्थभङ्गे द्वितीयतृतीयभङ्गदोषांश्चाप्नोति । प्रथमभङ्गवर्त्तिनश्चाचार्यस्य यथावत् संयतीपरिवर्त्तने अतिमहती कर्मनिर्जरा यदुक्तम्
जइ पुण पव्वावेई जावज्जीवाए ताउ पालेई । अन्नासति कप्पे विहु गुरुगा जं निज्जरा विउला' ।। ( बृ०क० १०६३, नि० भा० ४९२६ ) यदीत्यभ्युपगमे । ततश्चायमर्थः - ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितुं न कल्पन्ते । यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावज्जीवं ताः पालयति योगक्षेमविधानेन सम्यग् निर्वाहयतीत्यर्थः । स प्रथमभङ्गवर्त्ती यदि जिनकल्पं प्रतिपित्सुरपरं चार्यिकाः परिवर्त्तयितव्याः । ततः किं करोत्विति चिन्तायां यद्यस्ति तदीये गच्छे
,