________________
जइ - जीयकप्पो लहु कायन्भंग कवाडपिल्लणे लहुग कालऽपडिकमणे ।
मंडलिअपडिक्कमणे समं कुसीलेहिं पडिक्कमणे ।।२१६ ।। व्याख्या-कायस्य शरीरस्याभ्यङ्गस्तैलादिना मर्दनम् । अस्थिमांसरोमत्वक्सुखप्रदा सम्बाधनेत्यर्थः । तस्मिन् कायाभ्यङ्गे निष्कारणे कृते कारिते च लघुमासः । एवं कायस्य कल्कादिना उद्वर्त्तने मलप्रस्वेदस्फेटने नखसंस्करणे दीर्घरोमकर्त्तने काष्ठादिना दन्तधावने अलक्तकादिरङ्गेन नखादिरअने च लघुमासः । आज्ञाभङ्गादयश्च दोषाः । इमे चापरे दोषाः । गाढसम्बाधनायां चर्मापनीयते, अस्थिभङ्गो वा भवेत्, अभ्यङ्गे च मक्षिकादिसम्पातिमजीववधः । मलस्फेटननखसमारणादौ आत्मपरमोहोदीरणं बाकुश्यदोषः । सूत्रार्थपरिमन्थः। साधुक्रियाविपर्ययः श्रावकमिथ्यादृष्टिलोके वा परिवादः । अभ्यङ्गादिकरणेन परिज्ञायते न साधुरिति । वातादिरोगमार्गश्रमादिना कारणेन पुनरभ्यङ्ग उद्वर्त्तनं वा कारयन्नपि शुद्धः । एवमनाभोगादिना मलाद्यपनयन्नपि शुद्धः । तथा पादनखा दीर्धाश्चङ्क्रमणे उपलादिषु आस्फिटन्ति, भज्यन्ते वा हस्तनखा, भाजनलेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति । तथा च लोको भणेदेष कामी कामिनीकृतक्षतत्वादिति । लोकश्च भणति दीर्घनखान्तरे सज्ज्ञा तिष्ठत्यतोऽशुचय एते । पादनखेषु च दीर्घष्वन्तरे रेणुस्तिष्ठति तया च चक्षुरुपहन्यते । एतद्दोषपरिहरणार्थं नखकर्त्तनं कुर्वन्नपि शुद्धः । तथा वणगण्डभगन्दरादिषु रोमाण्युपघातं कुर्वन्तीतिरोमच्छेदने शिरोरोगिणो वा केशकर्त्तने न दोषः । दन्तरोगे काष्ठादिना दन्तघर्षणे न दोषः । तथा आदर्शस्फटिकादिमणिजलतैलघृतादिभाजनादिषु स्वं मुखं रूपं वा विलोकमानस्य चतुर्लघु प्रायश्चित्तम् । आज्ञाभङ्गादयो दोषाः । इमे चान्ये-आदर्शादिषु आत्मानं रूपवन्तं दृष्ट्वा विषयान् भुनज्मीति प्रतिगमनं कुर्यात् ; अन्यतीर्थिकेषु वा प्रविशति; सिद्धपुत्रो वा भवति; सिद्धपुत्रीं वा सेवते; स्वलिङ्गेन वा संयती प्रतिसेवते; विरूपं वात्मानं दृष्ट्वा निदानं कुर्यात् ; देवताराधनवशीकरणयोगादि वा शरीरबाकुश्यं वा कुर्यात् ; आदर्श वाऽऽत्मनो रूपं दृष्ट्वा शोभेऽहमिति गौरवं कुर्यात् ; रूपेण हृष्टो विरूपो वा विषादेन क्षिप्तादिचित्तो भवेत् ; सागारिकैर्वा दृष्टे उड्डाह-एष न तपस्वी कामी एषोऽजितेन्द्रिय इति । रोगादिकारणे पुनरादर्शादिष्वात्मरूपविलोकनेऽपि न दोषः । तथा कपाटस्य प्रेरणे अयतनयाऽग्रतः पश्चाच्च क्षेपणे लघुमासः । तथा काले आवश्यकवेलायामप्रतिक्रमणे आवश्यकाकरणे लघुकाश्चत्वारो भवन्ति । तथा मण्डल्यां यथाज्येष्ठानुक्रमव्यवस्थितसाधुश्रेणिरूपायामप्रतिक्रमणे च कृते प्रतिक्रमणाऽकरणे । कुत्सितं शीलमाचारो येषां ते कुशीलाः पार्श्वस्थावसन्नादयस्तैः सार्धं प्रतिक्रमणे च कृते चतुर्लघुका भवन्ति ।।२१६।।।
गुरु उवहिअपडिलेहे छप्पइअ असोहि कमतदग्गहणे । लहुगा गुरुगज्जाणं सयमेव य वत्थपायगहे ।।२१७।।