________________
जइ - जीयकप्पो गय-राग-दोस-मोहा धम्मकहं जे करेंति समयन्नू । अणुदियहमवीसंता सव्वप्पावाण मुच्चंति ।।११८।। निसुणंति अ भयणिज्जं, एगंतं निज्जरं कहताणं । जइ अन्नहा ण सुत्तं अत्थं वा किंचि वाएज्जा ।।११९ ।। एएणं अटेणं गोयमा ! एवं वुच्चइ जहा णं जावज्जीवं अभिग्गहेणं चाउक्कालियं सज्झायं कायव्ति, तहा अ गोयमा ! जे भिक्खू विहीए सुपसत्थनाणमहिज्जेऊण नाणमयं करेज्जा से वि नाणकुसीले, एवमाइनाणकुसीले अणेगहा पन्नविज्जंति । (महानिशीथसूत्रम् अध्ययन - ३ सूत्र ३६-३७-३८) ।।२१०।। अथावश्यकाविधिकारणप्रायश्चित्तमाह
फिडिए सयमुस्सारिअ भग्गे वेगाइवंदणुस्सग्गे ।
कमसो भिन्नं लहुगुरु मासो सबमि चउलहुगा ।।२११।। व्याख्या-स्फिटिते स्वयमुत्सारिते भग्ने वा एकादिवन्दनोत्सर्गे । क्रमशो भिन्नलघुगुरुमासाः । सर्वेषु चतुर्लघुकाः। अयं भावार्थः-निद्रादिप्रमादवशतो गुरुभिः सह प्रतिक्रमणे स्फिटितो न मिलितः । एकस्मिन् कायोत्सर्गे भिन्नमासः । द्वयोर्लघुमासः । त्रिषु गुरुमासः । तथा गुरुभिरपारितेऽपि कायोत्सर्गे स्वयमात्मना प्रथममेव पारिते, भग्ने वा कायोत्सर्गे अचिन्तयित्वापि सर्वं चिन्तनीयमन्तराल एव पारिते । एकद्वित्रिसङ्ख्ये कायोत्सर्गे यथासङ्ख्यं भिन्नलघुगुरुमासाः । सर्वेष्वपि च कायोत्सर्गेषु स्फिटितत्वे भग्नत्वे च चतुर्लघु । एवं वन्दनकेऽपि स्फिटितत्वे पश्चात्पतितत्वे गुरोर्वन्दनकं ददानस्य स्वयमग्रतः प्रदत्ते कृताकृतत्वे भग्ने वा यथासङ्ख्यमेकस्मिन् भिन्नमासः । द्वयोर्लघुमासः । त्रिषु गुरुमासः । सर्वेषु चतुर्लघु ।।२११।। यस्तु कायोत्सर्गादीनि न करोत्येव तस्य किमित्याह
अकएसु अ तेसु पुणो लहुगुरुचउलहुग चउगुरु सव्वे ।
पुबमपिहि अर्थडिल निसि वोसिरणे दिवा सुअणे ।।२१२।। व्याख्या-अकृतेषु पुनस्तेषु कायोत्सर्गेषु वन्दनकेषु च एकादिषु एकद्वित्रिषु लघुगुरुचतुर्लघुकाः क्रमेण भवन्ति । सर्वस्मिंस्तु प्रतिक्रमणे अकृते चतुर्गुरु । तथा पूर्व सन्ध्यायामप्रेक्षितस्थण्डिले निशि सञोत्सर्गे कृते, दिवा स्वापे च कृते चतुर्गुरु ।।२१२।। तथा
कोहे बहुदेवसिए आसवकक्कोलमाइएसुं वा ।
लसुणाइसु लहुमासो तन्नाईबंधमुअणे अ ।।२१३।। व्याख्या-अत्र वाशब्दोऽनुक्तसमुच्चये । तेन पूर्वोक्तं चतुर्गुरु प्रायश्चित्तमाकृष्यते । ततश्च क्रोधे बहुदेवसिके चिरकालीने पक्षाच्चातुर्मासकाच्चोपर्यपि रहिते चतुर्गुरु । तथा आसवकक्कोलमाइएसु' । आसवोधातक्यादिभावितइक्षुरसस्तस्मिन् कथञ्चित्पीत इति शेषः । कक्कोलादिषु कक्कोललवङ्गपूगफलजातिफलताम्बुलादिषु च भक्षितेषु चतुर्गुरु प्रायश्चित्तम् । लशुनादिषु अचित्ते लशुने, आदिशब्दात् पाण्डौ च भक्षिते । तथा सन्नाइ' त्ति । तो वत्स आदिशब्दात् मयूरतित्तिरादयः तेषां बन्धोन्मोचने लघुमासः ।।२१३।।
A. श्रमरहिताः।
B. डुंगळी' इति भाषायाम् ।