________________
जइ - जीयकप्पो भूतिगअपेह अज्झुसिरतण भिन्न सेसपंचगेसु लहू ।
चउलहु पुत्थयपणए अपेहि पणगे गुरुगं च तसे ।।२१४।। व्याख्या-इह साधुभिः चतुर्भागावशेषायां चरमपौरुष्यां प्रस्रवणोच्चारकालभूमयः प्रतिलेख्याः ताः सप्तविंशतिर्भवन्ति । तद्यथा-उपाश्रयस्य मध्ये कायिकाभूमयस्तिस्रोऽनधिसहनीया आसन्ने मध्ये दूरे चाधिसहनीया अपि तिस्रः । एवमेताः षट् कायिकाभूमयो वसतिमध्ये । बहिरप्येवमेव षट् कायिकाभूमयः । एवं प्रस्रवणे द्वादश । एवं सञ्ज्ञाभूमयोपि द्वादश । तिस्रः कालमण्डलभूमयः । एवमेताः सर्वाः सप्तविंशतिः । ततो भुवां प्रस्रवणोच्चारकालभूमीनां त्रिकं भूत्रिकं तस्याऽप्रत्युपेक्षणे भिन्नमासः । निशीथे तु लघुमासः आज्ञादयश्च दोषाः । अप्रतिलेखिते च स्थण्डिले यदि व्युत्सृजति ततः षट्कायविराधना । बिलादिसम्भवे अप्रतिलेखिते अहिवृश्चिकादिभिरात्मविराधना । स्थण्डिलं न प्रतिलेखितमिति न व्युत्सृजति यदि ततो मूत्रनिरोधे चक्षुर्विनाशः । व!निरोधे जीवितनाशः । ग्लानकार्यव्याकुलत्वाग्निसम्भ्रमग्रामविकालप्राप्त्यादिकारणैः पुनरप्रतिलेखयन्नपि शुद्धः । तथा अशुषिरतृणेषु दर्भादिषु निष्कारणं परिभुक्तेषु भिन्नमासः । शेषपञ्चकेषु लघुमासः । तानि च पञ्चकानि-तृणपञ्चकं १ अप्रतिलेख्यदूष्यपञ्चकं २ दुष्प्रतिलेख्यदूष्यपञ्चकं ३ पुस्तकपञ्चकं ४ चर्मपञ्चकं चेति ५ । तत्र शालिव्रीहिकोद्रवरालकारण्यकतृणरूपं तृणपञ्चकम् । तूली संस्कृतरु(रू?)तादिभृता अर्कतूलादिभृता वा प्रतीता १ आलिङ्गनिका पुरुषप्रमाणा या राजेति बुद्ध्या समालिङ्ग्य राजान्तःपुर्यः शेरते २ मस्तकोपधानं हंसरोमादिपूर्णमुच्छीर्षकं ३ गल्लमसूरिका ४ पञ्चमो मसूरकश्चर्मकृतो वस्त्रकृतो वा बूयादिपूर्ण आसनक्रियायोग्यश्च क्वलकगष्टिकारूपः ५। एतदप्रतिलेख्यदूष्यपञ्चकं सर्वथापि प्रत्युपेक्षितुमशक्यम् अन्तश्चक्षुरविषयत्वात् । कोयवि-प्रावारक-पूरिका-दाढिकालि-विरालिकाख्यं दुष्प्रतिलेख्यदूष्यपञ्चकं चक्षुषा सम्यगनिरीक्ष्यम् । तत्र कोयविर्नाम रूतपूरितपट्टरूपा या लोके माणिकीत्युच्यते १। प्रावारो बृहत्कम्बलो नेपालादिः प्रतिशीरा वा २। पूर्यते स्तोकैरपि तन्तुभिः पूर्णा भवतीति पूरिका स्थूलशणगुणमयपट्टात्मिका यया धान्यगोणिकाः क्रियन्ते हस्त्याद्यास्तरणानि च ३। दाढिकालिर्यमलिततन्तुद्वयव्यूता पटी । अयमन्वयः । मुखमध्ये हि यमलितोभयदन्तपङ्क्तिरूपा दाढिकालि-दंष्ट्रिकावलिनिरीक्ष्यते । एवं द्विसूत्रपट्यपि । और्णिकी सौत्रिकी वा दाढिकालिसदृशीव दृश्यमाना प्रतिभातीति दाढिकालिरित्युच्यते ४। विरालिका नाम द्विसरसूत्रपटी ५। तथा गण्डीपुस्तकः १ कच्छपिपुस्तकः २ मुष्टिपुस्तकः ३ छेदपाटीपुस्तकः ४ सम्पुटफलकपुस्तकः ५ चेति पुस्तकपञ्चकम् । एतत्स्व रूपं चेदंबाहल्लपुहत्तेहिं गंडीपुत्थो अ तुल्लगो दीहो । कच्छवि अंते तणुओ मझे पिहुलो मुणेयव्यो ।। चउरंगुलदीहो वा वट्टागिइमुट्ठीपुत्थगो अहवा । चउरंगुलदीहु च्चिय चउरंसो होइ विन्नेओ ।। दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । तं मुणिअसमयसारा छिवाडिपुत्थं भणंतीह' ।।
(द० वै०नि० गा० ४६) A. भोटो तकीयो' इति भाषायाम् । B. रू' इति भाषायाम् ।