________________
...८८...
सड्ड- जीयकप्पो इति सामान्येन कालस्वरूपातिदेशमभिधाय विशेषतः कालखरूपाभिधित्सयाऽऽह
बहु-अबहु-थोवसीओ निधो उक्कोसमज्झिमजहन्नो।
इअ रुक्खो उहतिगे काले गिम्हो सिसिरवासा ।।१११।। व्याख्या–अत्र सामान्येन कालो द्विधा-स्निग्धो रूक्षश्च । स च द्विरूपोऽप्युत्कृष्टमध्यमजघन्यभेदात्रिधा । तदेवाह-बहु-अबहु-स्तोक-शीतः स्निग्धः । बहु घनं अबहु मध्यम स्तोकमल्पं च शीतं यस्मिन् स तथारूपः कालः स्निग्धः । स चोत्कृष्टो मध्यमो जघन्यश्च । तत्रोत्कृष्टस्निग्धो बहुशीतः मध्यमस्निग्धोऽबहुशीतः । जघन्यस्निग्धः स्तोकशीतः । ‘इय' । त्ति । इतिः पूर्वोक्तप्रकारसमावेशार्थः । ततश्चेति–पूर्वोक्तप्रकारेण रूक्षोऽपि त्रिविधः । क्व सति ? उष्णत्रिके बह्वबहुस्तोकोष्णत्वे सति । इदमुक्तं भवति-उत्कृष्टरूक्षो बहूष्णः । मध्यमरूक्षोऽबहूष्णः । जघन्यरूक्षः स्तोकोष्णः । स च स्निग्धो रूक्षोऽपि कालस्त्रिविधः । ग्रीष्मः शिशिरो वर्षालक्षणश्च । अयमर्थः-स्तोकशीतो जघन्यस्निग्धो बहूष्ण उत्कृष्टरूक्षश्च ग्रीष्मः । अबहुशीतो मध्यमस्निग्धोऽबहूष्णो मध्यमरूक्षश्च शिशिरः। बहुशीत उत्कृष्टस्निग्धः स्तोकोष्णो जघन्यरूक्षश्च वर्षा इति। इदमत्र तात्पर्यम्-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि, षष्ठाष्टमदशमानि मध्यमानि, अष्टमदशमद्वादशान्युत्कृष्टानि दद्यात् । एतच्चाग्रे स्वयमेव वक्ष्यति । इति गाथार्थः ।।१११।। इत्युक्तं कालद्वारम् । साम्प्रतं भावविषयं प्रायश्चित्तं पुरुषस्वरूपं चाह -
हट्ठस्स दिज्ज भावे न गिलाणस्स व सहिज्ज जं च तयं ।
दिज्ज सहिज्ज व कालं पुरिसा सह असह असढाई ।।११२।। व्याख्या-भावे भावतः कश्चिदालोचनाग्राही हृष्टो निरोगः समर्थः । कश्चिद् ग्लानो रोगी शक्तिविकलश्च । इत्येतद्विचार्य हृष्टस्य जीतोक्तादधिकमपि दद्यात्, ग्लानस्य तु न दद्यात्, वाशब्दाज्जीतोक्तादूनं वा दद्यात्। यच्च वा यावन्मानं स सहते कर्तुं शक्नुयात् तत्प्रायश्चित्तं तावन्मानं ग्लानादेरालोचनाग्राहिणो दद्यात् । कालं वा सहते यावता स प्रगुणो भवति, तावन्तं कालं प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य सतो दद्यादित्यर्थः। उक्तो भावः । साम्प्रतं सक्षेपेण पुरुषद्वारमाह-तत्र केचित् पुरुषा आलोचनाग्राहिणः सहाः सर्वप्रकारैः समर्थाः । अपरे असहा असमर्थाः । तथा केचिदशठाः सरलात्मानः, आदिशब्दात् केचिच्छठा मायाविनः। एवं गीतार्थपरिणामकादयश्च भवन्तीतिशेषः । ते च गीतार्थादयोऽमी । इह प्रवचने अनेकविधाः शिष्याः-गीतार्थाः परिणामका अपरिणामका अतिपरिणामकाः शैक्षा उच्छृङ्खलाश्चेति । तत्र गीतार्थो'गीयं भण्णइ सुत्त'' मित्यादिगाथोक्तस्वरूपः । तथोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधति आचरन्ति च ते परिणामकाः । ये पुनरुत्सर्गमेव श्रद्दधत्याचरन्ति च, अपवादं तु न श्रद्दधत्याचरन्ति वा ते