________________
सङ्घ- जीयकप्पो
| ...८७... एतच्च कस्य ? इत्याह-‘सुद्धस्स वि'' त्ति । शुद्धस्यापि सामान्येन निरतिचारस्य, अपिशब्दात् सातिचारस्यैकं समासेवितानेकातिचारायातं प्रायश्चित्तम्, द्वितीयं च वर्षाद्यापन्नमिदं दीयते इति । आलोचनाप्रवेशावधिकाल उत्कर्षतोऽपि वर्षपर्यन्त एव दीयते नाधिक इत्येके । अन्ये त्वाहुर्बालालोचनाया वर्षत्रयमिति । अपरे पुनर्यथाशक्ति इतिगाथार्थः ।।१०८।। सम्प्रति विशेषाभिधानाय प्रस्तावनामाह -
पायमिमं ओहुत्तं विभागओ हीणमहिअ तम्मत्तं ।
दिज्जा नाउं दव्वाइ-पुरिस-पडिसेवणविसेसे ।।१०९।। व्याख्या–प्रायो बाहुल्येनेदं पूर्वोक्तं प्रायश्चित्तदानं ओघेन सामान्येन उक्तं द्रव्याद्यविभागतः प्रतिपादितम्, विभागतो विशेषतः पुनींनमधिकं तन्मात्रं वा जीतोक्तमात्रमेव वा दद्यात् प्रायश्चित्तमितिशेषः । किं कृत्वेत्याह- ‘नाउं' ' ति । ज्ञात्वा अवगम्य द्रव्यादिपुरुषप्रतिसेवनाविशेषान् । अयमत्र भावार्थः-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवनाविशेषेषु हीनेषु हीनम्, अधिकेष्वधिकम्, अहीनोत्कृष्टेषु तन्मात्रं जीतोक्तसममेव प्रायश्चित्तं दद्यादिति गाथार्थः ।। १०९।। तत्र द्रव्यक्षेत्रकालाभिधित्सयाऽऽह -
दव्वे सुलहे बलिए य अहिअमूणं व दुब्बले दुलहे ।
खित्ते ऊणहिअं रुक्ख सीयले एव काले वि ।।११०।। व्याख्या-आहारादिकं द्रव्यं यत्र देशे सुलभं बलिकं च स्यात् । यथा-अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तस्मिन् सत्यधिकं जीतोक्ताद् बहुतरमपि दद्यात् । यथा यत्र पुनर्वल्लचणककाञ्जिकादिको रूक्षाहारो दुर्लभो दुर्बलश्च तस्मिन् सति ऊनं हीनं जीतोक्तादल्पमपि दद्यात्, चशब्दात् साधारणे द्रव्ये जीतोक्तमेव दद्यात् । न हीनमधिकं वेत्यनुक्तमपि ज्ञेयम् । तथा क्षेत्रे ग्रामादौ ऊनमधिकं तन्मात्रं वा दद्यात् । किंविशिष्टे ? इत्याह-रूक्षे स्नेहरहिते, उपलक्षणाद्वातिले वा हीनम् , शीतले पुनः स्निग्धे अनूपे वा क्षेत्रे जीतोक्तादधिकमपि दद्यात्, चशब्दात् साधारणं चानुक्तमपि ग्राह्यम् । तत्र साधारणे मध्यस्थे अस्निग्धरूक्षे जीतोक्तमात्रमेव दद्यान्न पुनरूनाधिकम् । तथा- 'एव काले वि' त्ति । एवममुनैवोक्तप्रकारेण जीतोक्ताऽधिकसमहीनानि तपांसि कालेऽपि त्रिविधे-वर्षाशिशिरग्रीष्मलक्षणे यथासङ्ख्यं दद्यादिति सामान्यातिदेश इति गाथार्थः ।।११०।।