________________
सड्ड - जीयकप्पो
| ...८६...] व्याख्या-श्राद्धो निष्कारणं प्रतिक्रमणं न करोति चतुर्गुरु, आलस्यादिनोपविष्टः सन् करोति चतुर्लघु प्रायश्चित्तं भवतीति । एवं वन्दनकं न ददाति गुरुमासः, उपविष्टः सन् ददाति लघुमासः प्रायश्चित्तं भवति । चशब्दात्क्षमाश्रमणादेरविधिना दानादानयोभिन्नादि ज्ञेयमिति गाथार्थः ।। १०६ ।। अथ वीर्यातिचारमेव सामान्येनाह -
पडिकमण-दाण-पूआ-तव-सज्झायाइ थोवकरणंमि ।
गुरुगो बहुसामत्थे लहु नियमे मुणि-जिणानमणे ।।१०७।। व्याख्या-सामान्येन नियमे सति बहुकरणसामर्थेऽपि प्रतिक्रमणं स्तोकं करोत्येकवारमित्यर्थः । एवं दाने सप्तक्षेत्र्यादिविषये शक्तिं निगृहति । पूजायाश्च त्रिकालकरणसामग्र्यामेकवेलादिकरणे । एवं तपःस्वाध्यायसंविभागादिविषयेऽपि स्तोककरणे गुरुमासः । तथा नियमे सति दिनमध्ये देवगुरूणामवन्दने लघुमासः प्रायश्चित्तं भवतीति गाथार्थः । इह च सामान्येन वीर्याचारे निगृहिते चतुर्लघु । विशेषतस्तु- 'नाणाइ निगूहि गुरू दव्वाइ अभिग्गहागहे य लहु' । । नाणे पढणगुणणाइसु आलस्सं करेइ । दंसणे वच्छल्लकरणाइसु न उज्जमइ । चरित्ते मूलउत्तरगुणेसु पमायं करेइ । तवंमि विणयवेयावच्चाइ न करेइ । मासगुरु प्रायश्चित्तं भवतीति । द्रव्यक्षेत्रकालभावाद्यभिग्रहाणामग्रहणे, तुशब्दाद्भङ्गे च लघु । ‘मायाए अप्पाणं नाणतवविरिआइसंजुयं कहतस्स लहु' ' इति ।। १०७।। अथ विस्मृताज्ञातकृतादिसर्वाचारातिचारानाश्रित्याह -
चउम्मासिअवरिसे सामन्नालोअणासु पारण ।
_ विम्हरिअन्नायकए सुद्धस्स वि पंचकल्लाणं ।।१०८।। व्याख्या-चातुर्मासिकायां वार्षिकायामनिर्धारितवर्षसङ्ख्यबालालोचनारूपायां सामान्यायां वाऽऽलोचनायां प्रत्येकं पञ्चकल्याणम् । अन्ये त्वाहुः-प्रतिवर्षमालोचनाग्राहिणः पञ्चाचारान् प्रति प्रत्येक पञ्चकल्याणं पञ्चाशच्चतुर्गुरुका इत्यर्थः । अपरे पुनः प्राहुः-आलोचनानन्तरं यावन्ति वर्षाणि यान्ति तावन्ति पञ्चकल्याणानि दीयन्ते । एतत्पञ्चकल्यादि प्रायश्चित्तं किंविषयम् ? इत्यत आह – 'विम्हरिए' त्यादि । विस्मृताज्ञातकृतविषये । अयमर्थः-एतत्तप आलोचयतो यत्किमपि अनाभोगादिना विस्मृतम्, यच्च पूर्वमतिचारकरणकाले न ज्ञातं तदाश्रित्य ज्ञेयम्, न पुनर्मायादिना निगूहितातिचारविषयेऽपि ।