________________
सड-जीयकप्पो
| ...८५... केचिन्नमस्कारसहित-पौरुषी-पुरिमा -पार्द्ध-व्यासनै-कासन-निर्विकृतिका-चाम्ल-क्षपणानां भङ्गे तदधिकप्रत्याख्यानदानम् । 'तम्मत्तं व'' त्ति । इतरे पुनर्यदेवैकासनादि प्रत्याख्यानं भज्यते तदेव भणन्ति । एकासनादीत्यर्थः । क्वचिदेवं व्याख्या-सङ्केतभङ्गे नमस्काराणामष्टोत्तरशतम् । अन्ये तु लघुमासं चाहुः । अद्धाभङ्गे तदधिकम् , यथा क्षपणभङ्गे क्षपणद्वयम् , ग्रन्थिसहितादिभङ्गे नमस्कारशतद्वयं तावन्मात्रमेव वा स्यादिति । तथा 'चरिम'' त्ति । ‘पदैकदेशे पदसमुदायोपचारात्' ' दिवसचरिमप्रत्याख्यानस्याकरणे ग्लानत्वादिकारणाभावेऽप्यविधाने भङ्गे च प्रत्येकं लघुमासः । मतेन पञ्चकम् । अन्ये तु पानकासंवरणे पञ्चकम् । वमनात् प्रत्याख्यानभङ्गे लघु । मतेन पञ्चकम् । मतान्तरेण सर्वप्रत्याख्यानभङ्गे प्रत्येकं भिन्नमिति गाथार्थः ।।१०४।। अथ वीर्याचारविषयं प्रायश्चित्तविधिमाह
भिन्नाइ सयं पारे पच्छकयाऽविहिकए अपुन्नकए ।
गुरुमासाइ अकरणे इग-दु-ति-चउवंदणुस्सग्गे ।।१०५।। व्याख्या-उत्सर्गतो गुरुसामग्रीसद्भावे गुरुणा सार्धं प्रतिक्रमणं कुर्यात् 'पडिकमणं सह गुरुणा' इति वचनात् । तत्र गुरुभिः सार्धं प्रतिक्रमणं कुर्वन् श्राद्धो यदि गुरुणा कायोत्सर्गे अपारिते स्वयं प्रथमं पारयति, गुरुणा वा कायोत्सर्गे कृते पश्चात्क्षणमात्रेण करोति, अविधिना वा घोटकलताद्यावश्यकसूत्राद्युक्तकायोत्सर्गेकोनविंशतिदोषैर्दुष्टं करोति, अपूर्ण वा निजनिजप्रमाणतो न्यूनमुपलक्षणादधिकं वा करोति । एतद्दोषदुष्टेष्वेकद्वित्रिचतुःसङ्ख्येषु कायोत्सर्गेषु 'भिन्नाइ' । त्ति । भिन्नादि प्रायश्चित्तं भवति । तथाहिएकस्मिन्नुत्सर्गे स्वयं पारिते पश्चात्कृते अविधिना कृते अपूर्णकृते वा भिन्नमासः । एवं द्वयोरुत्सर्गयोर्लधुमासः। त्रिषु कायोत्सर्गेषु गुरुमासः । चतुषु कायोत्सर्गेषु चतुर्लघवः । तथा 'ऽकरणे' । त्ति । निद्रालस्यादिना सर्वथा पुनरकरणे एकस्योत्सर्गस्य लघुमासः । द्वयोर्गुरुमासः । त्रिषु चतुर्लघु । चतुर्षु चतुर्गुरु प्रायश्चित्तं भवति । एवं वन्दनकेऽपि प्रायश्चित्तविधिर्भावनीयः । तथाहि-वन्दनकं गुरोः पूर्वं पश्चाद्वा दत्ते, अविधिना न्यूनाधिकावश्यकत्वादिना दत्ते, अपूर्णं वा पदवाक्यछन्दना (? आ) दिभिy वा दत्ते । तत्रैकस्य वन्दनकस्य गुरोः पूर्व पश्चाद्वा दानादौ भिन्नमासः । द्वयोर्वन्दकयोलघुमासः । त्रयाणां वन्दनकानां गुरुमासः । चतुर्णां वन्दनकानां चतुर्लघु । सर्वथा त्वदत्ते एकस्मिन् वन्दनके लघुमासः । द्वयोर्वन्दनकयोर्गुरुमासः । त्रिषु वन्दनकेषु चतुर्लघु। चतुर्पु वन्दनकेषु चतुर्गुरु प्रायश्चित्तं भवतीति गाथार्थः ।। १०५।।
पडिकमणस्साकरणे चउगुरु चउलहु बइठ्ठपडिकमणे । गुरु वंदणगाकरणे बइठ्ठकरणे अ लहुमासो ।।१०६ ।।