________________
सढ- जीयकप्पो
| ...८४... कृतिकर्म न करोति । तथा असंवरणं प्रत्याख्यानं वन्दनकदानेऽपि चतुर्विधाहारप्रत्याख्यानरूपदिवसचरिमस्वरूपं न विधत्ते । तथा अनिमित्तं ग्लानत्वादिकं कारणमन्तरेण दिवा स्वपिति । तथा विकथाः स्त्रीकथादिकाः करोति। तासां स्वरूपं ग्रन्थान्तरतोऽवसेयम् । तथा परोपघातिन्यादिकां सावद्यभाषां भाषते। तथा पौरुषी पौरुषीचैत्यवन्दनामभणित्वाऽकृत्वेत्यर्थः । तथा साकारं 'पदैकदेशे पदसमुदायोपचारात्'' साकारानशनप्रत्याख्यानमकृत्वा । तथा 'गाथा' ' मित्यत्रैकवचनं जात्यपेक्षमित्यतो गाथाः-संस्तारकगाथा'अणुजाणह संथारमि' ' त्यादिका अभणित्वा अकथयित्वा च स्वपिति । तथा दिवा अप्रतिलिखितेषु स्थण्डिलेषु मोकादीनि प्रश्रवणोच्चारादीनि व्युत्सृजति । एतेषु सर्वेष्वपि गाथाद्वयप्रतिपादितेष्वपराधस्थानेषु चतुर्लघु प्रायश्चित्तं भवतीति गाथाद्वयार्थः । एतच्च पौषधोपवासव्रतप्रायश्चित्तं प्राक् सामायिकव्रताधिकारे अनुक्तं यथासम्भवं तत्राऽप्यवगन्तव्यमिति ।। १०१-१०२।। अथ अतिथिसंविभागव्रतविषयं तपआचारादिविषयं प्रायश्चित्तविधिमाह -
चउगुरु अकारणं संविभाग-पच्चक्खाण अकरणे नियमे ।
अवए वि लहु सुसड्ढस्स निंदविग्घे य तव कुणओ ।।१०३ ।। व्याख्या-नियमे सति कारणं ग्लानत्वादिकं विना संविभागं न करोति । तथा पर्वतिथौ मया अमुकं प्रत्याख्यानं कर्त्तव्यं शेषतिथिषु चामुकमिति नियमे सति प्रत्याख्यानं न करोति, प्रत्येकं चतुर्गुरु प्रायश्चित्तं भवति । तथा अव्रतेऽपि नियमाभावेपि सुश्रावको यदि प्रमादेनातिथिसंविभागं तपश्च नमस्कारसहितादि न करोति लघुमासः प्रायश्चित्तम् । तथा तपः कुर्वतां निन्दाकरणे विघ्नकरणे अन्तरायकरणे, चशब्दात् प्रत्यनीकता प्रद्विष्टताऽऽशातनादिषु च प्रत्येकं लघुमासः । एवं सामान्येन पर्युषणादिष्वष्टमाद्यकरणे च लघु । विशेषतः पुनरेवम्-पक्खिए विसेसतवं अकरितस्स बालस्स पणगं, वुड्ढस्स लघु, तरुणस्स गुरु । चाउम्मासिए बालस्स लहु, वुड्ढस्स गुरु, तरुणस्स चउलहु । संवच्छरिए बालस्स गुरु, वुड्ढस्स चउलहु, तरुणस्स चउगुरु-इति ।।१०३।।
सकेयद्धाभंगे अट्ठसयं लहू गुरू तदहियं वा ।
तम्मत्तं वा चरिमाकरणे भगे लहू वमणे ।।१०४ ।। व्याख्या-सङ्केतप्रत्याख्यानमङ्गुष्टग्रन्थिसहितादि । अद्धाप्रत्याख्यानं नमस्कारसहित-पौरुषीसार्द्धपौरुषीपुरिमार्द्धादि । एतयोरुपलक्षणत्वाद् द्व्यासनैकासनादीनां च भङ्गेऽष्टोत्तरशतं नमस्काराणामिति शेषः । 'लहु'' त्ति । अन्ये त्वेतेषां भङ्गे लघुमासमाहुः । 'गुरु'' त्ति । अपरे तु गुरुमासम् । तदहियं व' त्ति।