________________
...८३...
ड्ड - कप्पो यावन्ति दिनानि स्यात्तावन्तश्चतुर्गुरुकाः प्रायश्चित्तम् । अयमभिप्रायः - वर्षाकाले किल प्रथमवृष्टौ जातायां दिनत्रयं यावत् सूक्ष्माङ्कुरा अन्तर्मुहूर्त्तमात्रकालमनन्तकायरूपाः प्रायः सर्वत्र भूतले प्रतिक्षणं प्रादुर्भवन्तो भवन्ति । ते च दुर्लक्ष्यतया परिहर्तुं दुःशका अतस्तदानीं तद्विराधनाभीरवो गृहीतपौषधा गृहीतसामायिकाश्चोपासका दिनत्रयं यावत्तत्परिहाराय यथाशक्ति यतन्ते । यतमानानामपि च गृहीतपौषधादीनां श्राद्धानां नवीनाङ्कुरविराधना यावन्ति दिनानि स्यात्तावन्तश्चतुर्गुरुकाः प्रायश्चित्तं भवति । तथा ग्रन्थान्तरे सामान्यतो लोहनाशे चतुर्गुरुकस्योक्तत्वादत्र 'सुइ' ' त्ति सूचिकालयस्य ग्रहणम् । ततश्च षट्पद्यालयो यूकागृहं सूचा सूचिकालयः तयोर्नाशने दशकं प्रत्यासत्तेश्चतुर्गुरुकाणां प्रायश्चित्तं भवतीति गाथार्थः ।। ९९।। पुढवाइ–घट्टणाइसु भिन्नाइ अनंत - विगलि लहुगाइ ।
पंचिंदिसु गुरुमाइ दसगं सव्वेसु नवपुरओ ।। १०० ।।
व्याख्या
- पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां 'घट्टणाइसु' ' त्ति । सङ्घट्टानागाढपरितापगाढपरितापोपद्रवेषु जातेषु 'भिन्नाइ' ' क्रमेण - भिन्नमास - लघुमास - गुरुमास - चतुर्लघवः प्रायश्चित्तं भवति । पृथिव्यादीनां सङ्घट्टादिस्वरूपं प्राक् प्रथमाणुव्रते (गाथा नं. ७०) प्रतिपादितमेव । तथाऽनन्तकायवनस्पतेर्विकलेन्द्रियाणां च सङ्घट्टादिषु चतुर्ष्वपि 'लहुगाई' ' त्ति । यथासङ्ख्यं लघुमास - गुरुमास - चतुर्लघु - चतुर्गुरवः प्रायश्चित्तं भवति । तथा पञ्चेन्द्रियविषयेषु सङ्घट्टादिषु ‘गुरुमाइ' ' त्ति । गुरुमास - चतुर्लघु - चतुर्गुरु - षड्लघवः प्रायश्चित्तं गृहीतपौषधस्य श्राद्धस्य भवति । अत्रापि पञ्चेन्द्रियसङ्घट्टः तदहर्जातमूषकगृहकोलिकादिविषयो द्रष्टव्य इति । 'दसग' ' मित्यादि सर्वेष्वपि पृथिव्यादिविषयेष्वेतेषु सङ्घट्टादिषु नवानां वाराणां परतो दशादिषु यावत्परः शतेष्वपि सञ्जतेषु दशकं स्वप्रायश्चित्तानां भवति । यथा दशभिरेकादशभिर्यावत्परः शतैश्च पृथिवीसङ्घट्टैर्भिन्नदशकमेव, नाधिकं तावता तस्य शुद्ध्यापत्तेरिति । नव यावत्तु यावन्तः सङ्घट्टादयः तावन्ति प्रायश्चित्तानि भवन्ति । एवमन्येषामपि भावना कार्येति गाथार्थः ।। १०० ।
वमणे निसि वोसिरणे जिमिऊणावंदणे असंवरणे ।
अनिमित्त दिवा सुअणे विकहा सावज्जभासाए ।।१०१ ।। पोरिसिमभणिअ सागारमकरिडं गाहमभणिउं सुअणे । चउलहुअमपेहिअथंडिलेसु
मोआइ वोसिर ।। १०२ ।।
व्याख्या - गृहीतपौषधस्य वमनं जायते । निशि व्युत्सर्जनमकालसञ्ज्ञा भवति । तथा भुक्त्वा अवन्दनं गुरोः