________________
| ...८२...]
सङ्घ-जीयकप्पो उवविठ्ठपडिक्कमणे नासज्जपमज्ज-पुंजणुद्धरणे ।
जिणमुणिगेहागमणे लहुगमपारियजिमणपियणे ।।९६ ।। व्याख्या-अशक्तेरालस्यादेर्वा गृहीतपौषधेऽन्यथा वा श्राद्ध उपविष्टः सन् प्रतिक्रमणं करोति । तथा अन्धकारे परिभ्रमन् बाढमासज्जेति न कथयति न प्रमार्जयति च । तथा द्विवेलमुपाश्रयप्रमार्जनानन्तरं पुझं नोद्धरति । तथा जिनमुनिगेहयो र्देवालयोपाश्रययोर्देवगुरुवन्दनाय न गच्छति । तथा प्रत्याख्यनमपारयित्वा भुङ्क्ते पानीयं च पिबति । एतेषु सर्वेष्वपि लघुकं लघुमासः प्रायश्चित्तं भवतीति गाथार्थः ।।९६।।
पुरिसस्सित्थीफासे चउलहु इत्थीइ होइ चउगुरुयं ।
लहुअं संतरफासे अंचलतिरिफासणे भिन्नं ।।९७।। व्याख्या–पौषधेऽङ्गीकृते पुरुषस्य निरन्तरं स्त्रीस्पर्श चतुर्लघु प्रायश्चित्तम् । स्त्रियस्तु निरन्तरं पुरुषस्य स्पर्शे चतुर्गुरु प्रायश्चित्तम् । तथा सान्तरे स्पर्शे परम्परसङ्घट्टे द्वयोरपि स्त्रीपुंसोलघुमासः प्रायश्चित्तम् । तथाअञ्चलेन वस्त्रप्रान्तादिना स्त्रियः सङ्घट्टे तिरश्चयाः स्पर्शने च भिन्न भिन्नमासः प्रायश्चित्तं भवतीति गाथार्थः।।
तिविह जल-जलणफुसणे विज्जुप्फुसणे अ भिन्न-लहुगुरुगो ।
चउलहु वधारंभी तं चिय दग-मट्टियगमे य ।।९८।। व्याख्या-त्रिविधे जघन्यमध्यमोत्कृष्टभेदभिन्ने जलस्य जलदादिसत्कस्य ज्वलनस्याऽग्निज्योतिषश्च स्पर्शने, विद्युतः सर्शने च भिन्न लघुगुरु च । जलादीनां जघन्यस्पर्शन भिन्नं, मध्यमस्पर्शन लघुमासः उत्कृष्टस्पर्शने गुरुमासश्च प्रायश्चित्तं भवति । 'चउलहु वग्घारंमि। त्ति । वग्यारं नाम या अविच्छिन्ना वृष्टिः । यद्वा-यस्यां वृष्टावुपरि प्रावृतं कम्बलादिकं श्चोतति, यद्वा-उपरितनकम्बलादिकं भित्त्वाऽन्तःकायमार्द्रयति । तथा 'तं चिय। त्ति । तदेव चतुर्लघुकमेव प्रायश्चित्तं भवति । क्वेत्याह-उदके मृत्तिकायां च उदकमिश्रमृत्तिकायां वा गमने इति गाथार्थः ।।९८।।
नववासवुट्ठि-किसलयविराहणा जत्तिआणि दिअहाणि । तावइया चउगुरुगा दसगं छपिआल-सुइनासे ।।९९।।
(जइजीयकप्पो ४३) व्याख्या-अभिनववर्षाकालवृष्टौ जातायां यानि किशलयान्यनन्तकायरूपाणि भवन्ति । तेषां विराधना