________________
सड - जीयकप्पो
| ...८१...
एवं सक्षेपतः पञ्चदशकर्मादानस्वरूपमिति गाथार्थः ।।९२।।
अथ गाथानुलोम्येन देशावकाशिकदशमव्रतस्य प्रायश्चित्तविधेः पूर्वमुक्तत्वात् साम्प्रतं सामायिकपौषधोपवासव्रतयोर्नवमैकादशयोः प्रायश्चित्तविधिमाह -
नियमे पोसहसामाइअकरणे चउगुरु अपारणए ।
इह पुत्तीहारवणे चउगुरु लाहे पुणो भिन्नं ।।९३ ।। व्याख्या – नियमे सति पौषधस्य सामायिकस्य चाकरणे चतुर्गुरवः । तथा 'अपारणे। त्ति । ‘डमरुकमणि' न्यायेन 'चउगुरु' इत्यस्यात्रापि योगात् पौषधसामायिकयोरपारणेऽपि चतुर्गुरु प्रायश्चित्तं भवति । मतान्तरेणापारणे चतुर्लघु । नियमाभावेऽपि सुश्रावकस्य सामग्र्यां सत्यां सामायिकाकरणे लघुमासः । तथा इह पौषधसामायिकयोरङ्गीकृतयोर्यदि मुखवस्त्रिका सर्वथा नाशयति तदा चतुर्गुरु । मतान्तरेण चतुर्लघु । लाभे पुनस्तस्याः प्राप्तौ भिन्न भिन्नमासः। पुनःशब्दाद् हस्ताद्यवग्रहाद् बहिःस्थितायामपि तस्यां भिन्नमासः । क्वचिन्नमस्कारावलिकानां नाशने च मासगुरु । इति गाथार्थः ।।९३ ।। अथ विशेषतः पौषधविधिविषयं प्रायश्चित्तमाह
वसहि-अपमज्जणे तह सज्झाय-निसीहियावसिअकरणे । इरिआइ अपडिकमणे उवही थंडिल अपडिलेहे ।।९४ ।। अपमज्जिङ कवाडुग्घाडे पिहणे अ कायकंडुअणे ।
कट्ठाइगहणमुअणे भिन्नं कुड्डाइवटुंभे ।।९५।। व्याख्या-यदि गृहितपौषधोपवासव्रतो द्विवेलं वसतिं न प्रमार्जयति । तथाशब्दाद्रात्रौ स्वपन संस्तारकभूमि कायोत्सर्गकरणभूमिं वा न प्रमार्जयति, चतुष्कालं स्वाध्यायं न करोति, वसत्यादौ प्रविशन्नषेधिकी न कथयति, उपलक्षणादौपग्रहिकरजोहरणेन पादौ न प्रमार्जयति, शिरस्यञ्जलिं न बध्नाति च, तथा निःसरन्नावश्यकीं न करोति, तथा कायिकादिपरिष्ठापने हस्तशतादागमने पयस्त्यागादौ वेर्यापथिकीं न प्रतिक्रामति, उभयकालमुपधिं स्थण्डिलानि चागाढोच्चारप्रश्रवणपरिष्ठापनार्थं न प्रत्युपेक्षते । नैषेधिक्यादिस्वरूपं स्थण्डिलानां प्रमाणसङ्ख्यादिस्वरूपं च ग्रन्थान्तरतोऽवसेयम् । तथा 'अपमज्जिउं। ति । पृथग् पृथग् सर्वत्र सम्बध्यते । ततश्च कपाटादीन् पूर्वं चक्षुषा निरीक्ष्य औपग्रहिकेन साधुसत्केन वा रजोहरणेनाप्रमार्योद्घाटयति । पिदधाति स्थगयति वा । तथाऽप्रमार्ण्य कायं शरीरकं कण्डूयति । तथा काष्ठपीठफलकमात्रकदण्डकादिकमप्रमाय॑ गृणाति मुञ्चति वा, कुड्ये भित्तौ आदिशब्दात् स्तम्भमालादावप्रमाावष्टभ्नाति । एतेषु सर्वेष्वपि स्थानेषु भिन्न भिन्नमासः प्रायश्चित्तं भवतीति गाथाद्वयार्थः ।।९४-९५।।