________________
सड-जीयकप्पो
...८९... अपरिणामकाः । ये चापवादमेवाचरन्ति, नोत्सर्ग ते अतिपरिणामकाः । शेक्षा नवदीक्षिताः उच्छृङ्खला उल्लुण्ठाः, अपरिणामकादयोऽपात्रं न सिद्धान्तरहस्ययोग्या इति गाथार्थः ।।११२।। एवं विचार्य किं कार्यम् ? इत्यत आह -
जो जह सत्तो बहुतरगुणो अ तस्साहियंपि दिज्जाहि ।
हीणस्स हीणतरयं झोसिज्ज व सबहीणस्स ।।११३ ।। भणियं च । व्याख्या-पूर्वोक्तपुरुषाणां सहाऽसहादीनां मध्याद्यो यथा शक्तः तपः कर्तुं क्षमः बहुतरगुणो वा धृतिसंहननादिसम्पन्नः परिणतादिर्वा भवेत्, तस्याधिकमपि जीतोक्तादतिरिक्तमपि दद्यात् । तथा हीनस्य धृतिसंहननादिरहितस्यापरिणतादेर्वा हीनतरं जीतोक्तादल्पतरं दद्यात् । तथा सर्वहीनस्य सर्वथा धृतिसंहननादिशक्तिविकलस्य झोषयित्वा मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थ इति गाथार्थः ।।११३।। 'भणियं च' 'त्ति । भणितं चागमे इतिशेषः । किमित्याह
पणगं मासविवढिं मासगहाणीय पणगहाणीय । एगाहे पंचाहं पंचाहे दिति एगाहं ।।११४ ।। रागद्दोसविवटि हाणिं वा नाउं दिति पच्चक्खी ।
चउदसपुबाई वि हु तह नाउं दिति ऊणहि ।।११५।। व्याख्या- 'रागद्दोसे' त्यादि द्वितीयगाथापूर्वार्द्धम् । रागद्वेषयोर्विवृद्धि हानि वा ज्ञात्वा अवगम्य प्रत्यक्षिणः प्रत्यक्षज्ञानिनः केवलमनःपर्यायावधिज्ञानिनोऽधिकं हीनं वा जीतोक्ताद्ददतीति क्रियासम्बन्धः। कथमित्याह-'पणग'। मित्यादि । प्रत्यक्षागमज्ञानिनस्तुल्ये अपराधे सति पञ्चकयोग्यपुरुषस्य स्वरूपं विचार्यैकस्य पञ्चकं भिन्नं ददति, अपरस्य तु रागद्वेषविवृद्धिमुपलभ्य मासविवृद्धिं मासेन मासाभ्यां मासैर्वा वृद्धिं प्रयच्छन्ति पञ्चकस्थाने लघुमासादिकं वा ददतीत्यर्थः । उपलक्षणमेतत् मूलमनवस्थाप्यं पाराञ्चिकं वा यच्छन्ति । तथा तुल्येऽपि पाराञ्चिकयोग्ये अपराधे एकस्य पाराञ्चिकमपरस्यानवस्थाप्यं मूलं छेदं वा मासेन मासाभ्यां मासैर्वा हान्या तपश्चशब्दात् पञ्चकं यावदन्ते नमस्कारसहितं, हा ! दुष्टं कृतं, हा ! दुष्टं कारितं, हा ! दुष्टं अनुमोदितं मयेत्येवं वैराग्यभावनातो रागद्वेषहानि भूयसीमतिभूयस्तरामुपलभ्य प्रयच्छन्ति। तथा कस्यचिन्मासिकप्रतिसेवनायामल्पां रागद्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति पञ्चविंशतिं दिनानि ददतीत्यर्थः । तथा एकाहं नामाऽभक्तार्थः तस्मिन् प्रतिसेविते कस्यचिद्रागद्वेषवृद्धिमुपलभ्य पञ्चाहं ददति । तथा अपरस्य रागद्वेषहानिमुपलभ्य पञ्चाहे प्रतिसेविते एकाहमुपलक्षणत्वा