________________
...९०...
सड्ड-जीयकप्पो दाचाम्लमेकाशनं पूर्वार्द्धं निर्विकृतिकं पौरुषीं नमस्कारसहितं वा प्रयच्छन्तीति । नन्वेवं प्रत्यक्षागमज्ञानिन एव ददत्युतान्येऽपि ? इत्यत आह - ' चउदसपुव्वाई' ' त्यादि द्वितीयगाथोत्तरार्द्धम् । हुर्निश्चये । एवं चतुर्दशपूर्व्यादयोऽपि, आदिशब्दान्नवदशादिपूर्वधरा एकादशाङ्ग - निशीथादिश्रुतधारिणोऽपि तथा तेनैव प्रकारेण रागद्वेषयोर्वृद्धिं हानिं वा ज्ञात्वा जीतोक्तादधिकमूनं वा प्रायश्चित्तं ददति । अत्राधिकशब्दस्य पुरोनिपातश्छन्दोनुरोधादवसेय इति गाथाद्वयार्थः । । ११४-११५।।
>
इदं च प्रायश्चित्तं पुरुषाणामिव स्त्रीणामपि दातव्यमित्यत आहएयं पायच्छित्तं जह पुरिसाणं तहेव इत्थीणं ।
नाऊण सत्तमेसिं दिज्जाहि विसोहणट्टाए । ।११६।।
व्याख्या– एतच्च प्रायश्चित्तं यथा येनैव प्रकारेण पुरुषाणां दातव्यमुक्तं तथैव तेनैव प्रकारेण स्त्रीणामपि दातव्यम् । किं कृत्वेत्याह- ज्ञात्वा सत्त्वं शक्तिमासां स्त्रीणां प्रायश्चित्तं दद्यात् । किमर्थमित्याह विशोधनार्थाय पूर्वकृतातिचारमलक्षालनायेति गाथार्थः । । ११६।। उक्तं पुरुषद्वारमिदानीं प्रतिसेवनाद्वारमाह
संकम्प - वग्गणाई - कंदप्प - ण्णाणकारणाईआ ।
आउट्टि - दप्प - पमाय - कप्प - पडिसेवणा चउहा ।।११७।।
-
व्याख्या- -आकुट्टिका - दर्प - प्रमाद - कल्पैः क्रियमाणा प्रतिसेवना चतुर्द्धा चतुष्प्रकारा भवति । कथम्भूता ? इत्याह- सङ्कल्प उपेत्य सावद्यकरणोत्साहात्मकः, वल्गनादिः वल्गनडेपनधावनादिः कन्दर्पो हास्यजनकवचनादिरूपः, ज्ञानं विशेषश्रुतज्ञानग्रहणं तदेव कारणं ज्ञानकारणम् । एतानि चत्वार्यप्यादौ यस्यां सा तथा । इह चादिशब्दः प्रत्येकं योज्यते । ततोऽयमर्थः - सङ्कल्पादिका आकुट्टिकाप्रतिसेवना । वल्गनादिका दर्पप्रतिसेवना। कन्दर्पादिका प्रमादप्रतिसेवना । ज्ञानकारणादिका कल्पप्रतिसेवना । एवं चतुर्द्धा प्रतिसेवनेति । इदमुक्तं भवति - सङ्कल्पेन या क्रियते साऽऽकुट्टिका प्रतिसेवना । वल्गनादिभिर्या क्रियते सा दर्पप्रतिसेवना । कन्दर्पेण दिवा रात्रौ वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्ततया वा या क्रियते सा प्रमादप्रतिसेवना । ज्ञानदर्शनादिना चतुर्विंशतिभेदेन कारणेन गीतार्थेन कृतयोगिनोपयुक्तेन पुरुषेण यतनया या क्रियते सा कल्पप्रतिसेवनेति गाथार्थः ।। ११७॥
उक्ताः स्वरूपतः प्रतिसेवनाः । सम्प्रति तास्वेव प्रायश्चित्तविधिमाह
-
"
भणियमिणं तु पमाए दप्पे वड्ढिज्ज ठाणमाउट्टिए ।
ठाणांतरं व दिज्जा कप्पे पडिकमणमुभयं वा ।। ११८।।