________________
सङ्घ- जीयकप्पो
...९१...] व्याख्या-इदं तु जीतव्यवहारेण यत्तपोदानं भणितमुक्तम्, तत् प्रमाद एवोक्तम् प्रमादप्रतिसेवनाकारिणः पुरुषस्यैवोक्तम् । दर्प दर्पप्रतिसेवनाकारिणः पुरुषस्य पुनः स्थानं प्रमादप्रतिसेवकप्रायश्चित्तस्थानादेकं स्थानान्तरं वर्द्धयेत् । अयमर्थ :-प्रमादप्रतिसेवनया भिन्नमास-लघुमास-गुरुमास-चतुर्लघु-चतुर्गुरुषड्लघु-षड्गुरूणामापत्तौ निर्विकृतिक-पुरिमार्द्वकाशनाचाम्ल-चतुर्थ-षष्ठाष्टमाख्यं तपो दीयते । दर्पप्रतिसेवनाकारिणस्तु भिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या-निर्विकृतिकं मुक्त्वा पुरिमार्द्धादीनि दशमान्तानि तपांसि देयानीत्यर्थः । तथा आकुट्टिकायाम् आकुट्टिकाप्रतिसेवनायां पुनः स्थानान्तरं वा दद्यात्। दर्पप्रतिसेवाकारिणः सकाशात् स्थानवृद्ध्याऽधिकं तपःस्थानं वितरेत् । दोऽऽसेविनो हि भिन्नमासाद्यापत्तौ पुरिमा दीनि दशमान्तानि दीयन्ते । अस्य त्वेकाशनादीनि द्वादशमान्तानि देयानि, वाशब्दात् स्वस्थानमेव वा दद्यात् । इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । यथाऽऽकुट्टिकायां पञ्चेन्द्रियवधे मूलम् । अन्यत्रापि चाकुट्टिकायां यत्रापराधजाते यद्भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानम् । तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । तथा कल्पे कल्पप्रतिसेवनायां प्रतिसेवितायां प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् । वा अथवा उभयम् आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं द्वयं दद्यादिति गाथार्थः ।।११८।। अथ के ते कल्पचतुर्विंशतिभेदाः ? इत्याह -
दसणनाणचरित्ते तवपवयणसमिइगुत्तिहेउं वा । साहम्मिअवच्छल्लत्तणेण (वावि) कुलओ गणस्सेव ।।११९।। संघस्सायरिअस्सा असहस्स गिलाणबालवुड्डस्स ।
उदयग्गिचोरसावय - भयकंतारावइवसणे ।।१२०।। व्याख्या-यद्यपि पूर्वं ज्ञानादयश्चतुर्विंशतिः कल्पस्य भेदा उक्ताः, तथाप्यत्र ज्ञानदर्शनयोः समानत्वख्यापनार्थं छन्दोनुरोधाच्च दर्शनादय उच्यमाना न दोषाय । ततो 'दसण' ' त्ति । 'व्याख्यानतो विशेषप्रतिपत्ति'रितिन्यायाद्दर्शनं दर्शनप्रभावकाणि प्रमाणशास्त्राणि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः । एवं सर्वत्र यथायोगं भावना कार्या १ । एवं ज्ञानं विशेषश्रुतज्ञानं तद् गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धः २ । तथा चारित्र-तपः-प्रवचन-समिति-गुप्तिहेतुषु पञ्चसु सम्यगाराध्यमानेष्वपि द्रव्यक्षेत्रादिवैषम्याद् बहुविराधनासम्भवमुत्पत्स्यमानं कञ्चिदुपद्रवं सम्भाव्य तत्परिहारार्थं यतनया कमप्युपायं कुर्वतः कापि स्वल्पा विराधना सम्भवेत् तथापि शुद्धः, प्रवचनार्थं विष्णुकुमारवत् ३-७। तथा साधर्मिकवात्सल्येनापि साधर्मिकवात्सल्यमाश्रित्य तत्समाधानाय किञ्चिन्निषिद्धमपि यतनया