________________
ड्ड - जयकप्पो
...७६...
अयमभिप्रायः– सहसाकारेण स्वदारेषु नियमभङ्गे षड्लघु, प्रमादेन षड्गुरु, अनाभोगेन चतुर्गुरु । केचित् सामान्येनैव स्वकलत्रविषयेऽष्टम्यादिगृहीतनियमभङ्गे फ्र, मतेन फ्रा, आदेशान्तरेण ण्का । 'वेसाइ छलहु' त्ति । वेश्यायां तु सहसाकारादिभिरित्वरिकनियमभङ्गे क्रमेण षड्लघु - षड्गुरु - षड्लघूनि भवन्ति । मतान्तरेण सहसाकारादिभिस्त्रिभिरपि नियमभङ्गे षड्गुरुकमेव । अन्ये त्वाहुः - स्वदारेत्वरव्रतभङ्गे वेश्येत्वरव्रतभङ्गे च षड्लघु इत्वरायां कियत्कालान्यपरिगृहीतायां स्वयं धृतायां वा गमने षड्गुरु । एवं स्त्रियाः स्वपुरुषेऽनाभोगादिभिरित्वरिकव्रतभङ्गे क्रमेण न । फ्रा । ण्का । सपत्न्या वारके न । इति गाथार्थः ।। ८१ ।। पुनरत्रैव विशेषमाह
आभोगे पणकल्लं दुण्ह कुलवहूइ मूलमविसंकं ।
सासंकमनाए पणकल्लं नाए छ पणकल्ला ।। ८२ ।।
व्याख्या - आभोगे नियमोऽस्ति ममेत्युपयोगे जानानस्येत्यर्थः । स्वदारवेश्यादिनियमभङ्गे प्रत्येकं पञ्चकल्याणम् । उक्तं च 'आभोगे पञ्चकल्लमिक्किक्के' ' । इह च स्त्री पुरुषो वा यो बलात्कारं करोति तस्येदमितरस्य तु पूर्वोक्तमेव । उभयसम्मत्या तूभयोरपि पञ्चकल्यम् । 'दुण्ह कुलवहूइ ' ' त्ति । तथा परस्त्रीकुलवधूगमने द्वयोरपि निःशङ्कयोर्मूलम् । पुनः श्रावकधर्मारोपः क्रियते, षाण्मासिकं वा तपो देयमिति 'छम्मासं बहुअपावे वी'' ति वचनात् । श्रीमहावीरतीर्थे उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्ध्यर्थं तपः स्यादिति हेतोः । मृदुस्वभावस्य तु पञ्चकल्यमेव 'जइ संतप्पइ तो पंचकल्लाणमि' ति वचनात् । तथा ‘सासंकमनाए’ इत्यादि । साशङ्कयोर्द्वयोरपि लोकाऽज्ञाते सति पञ्चकल्यम् । 'नाए' इत्यादि । ज्ञाते तु लोकप्रसिद्धे सति साशङ्कयोर्द्वयोरपि षड् पञ्चकल्यानि स्वाध्यायलक्षयुतं पञ्चकल्यं तपो देयमित्यर्थः ।। ८२ ।। पूर्वोक्तमेवार्थं प्रकारान्तरेणाह
पण कल्ला दस कल्ला अनाय नाए बलाओकारिस्स ।
खवणसयं तीसाई व दसवेला जा उवरि मूलं ।। ८३ ।।
व्याख्या - बलात्कारिणः पुरुषस्य स्त्रियो वा शीलभङ्गेऽज्ञाते - लोकाप्रसिद्धे सति पञ्च कल्यानि । ज्ञाते लोकप्रसिद्धे च दश कल्यानि । 'खवणसय' ' मित्यादि । वारंवारमेवं कुर्वतस्तु दशवेला दश वारान् यावत् क्षपणशतं प्रायश्चित्तं भवति । पात्राद्यपेक्षया तु त्रिंशदादीनि वा चतुर्थानि भवन्ति । 'उवरि मूलं' 'ति । दशवेलानामुपरि साशङ्कयोरपि मूलं प्रागुक्तलक्षणम् । मृद्वोः पश्चातापिनोश्च पुंस्त्रियोः पञ्चकल्याणं वेति गाथार्थः ः ।। ८३ ।।