________________
• जीयकप्पो
सड -
...७५...
“मोसाइसु मेहुणवज्जिएसु दव्वाइवत्थुभिन्नेसु । हीणे मज्झुक्कोसे आसणमायामखमणाई ।।१।। अहवा मोसादत्ते परिग्गहे मेहुणे अ परदारे । पत्तेयं पत्तेयं, दप्पेणं पंचकल्लाण' ।।२।। मिति ।। ७९ ।। अथ तृतीयाणुव्रतविषयं प्रायश्चित्तमाह
लहु
सहितणु अदिन्ने मज्झि - अनाए गुरु - लहुग-नाए । जिट्टे दसगमनाए सकलह-नाए त्थ (? छ) पण - कल्ला ।। ८० ।। व्याख्या–इह सामान्येन द्रव्यादि - चतुष्प्रकारेऽप्यदत्तादाने जघन्ये गुरु, मध्यमे चतुर्लघु, उत्कृष्टे चतुर्गुरु । यदुक्तं— ‘मोसाइसु मेहुणवज्जिएसु' त्तीत्यादि । एतत्सूत्रोक्तं तु विशेषतः पुनरेवं- 'लहु' ' त्ति । स्वगृहे तन्वदत्ते जघन्यादत्तादाने लघुः लघुमासः । 'मज्झि' ' त्ति । मध्यमे मध्यमादत्तादाने स्वगृहेऽज्ञाते गुरुः गुरुमासः तस्मिन्नेव ज्ञाते चतुर्लघु मतान्तरेण चतुर्गुरु । 'जिट्ठि'' त्ति । स्वगृहे उत्कृष्टादत्तादानेऽज्ञाते दशकं क्षपणानामिति गम्यते । 'सकलह ' ' त्ति । ज्ञाते चोत्कृष्टादत्तादाने राजकुलपर्यन्ते च कलहे सम्पन्ने षट् पञ्च कल्यानि षष्टिः क्षपणानामित्यर्थः । अन्ये तु स्वगृहेऽन्नादिचोरणे लघु, वस्त्रद्रव्यादौ गुरु, ज्ञाते च चतुर्लघु । स्वर्णादौ परकीये चोरिते क्षपणदशकम् । ज्ञाते कलहे च क्षपणदशकं स्वाध्यायलक्षयुतमिति । केचित्तु शुल्कचौर्यां ४ विश्वासघाते भी च प्राहुरिति गाथार्थः ।। ८० ।। अथ चतुर्थाणुव्रतविषयं प्रायश्चित्तविधिमाह -
—
सहसापमायणाभोगि छलहु छगुरु अ चउगुरु सदारे ।
साइ छलहु - छगुरु-छल्लहु
इत्तरियवयभंगे ।। ८१ ।।
व्याख्या–सहसाकारः पूर्वातिप्रवृत्तक्रीडाभ्यासतोऽविमृश्यकरणम् । प्रमादः कषायविषयादिलक्षणः । यदुक्तम्
'मज्जं विसयकसाया निद्दा विगहा य पंचमी भणिआ । एए पंच पमाया जीवं पाडंति संसारे' ।। (सम्बोधसित्तरिरे - ७३, रत्नसञ्चयः ३२५ )
अथवाऽज्ञानसंशयादिस्वरूपः । तथा चोक्तम् - 'माओ अ जिणिदेहिं भणिओ अट्टभेअओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य ।। रागो दोसो मइब्भंसो धम्मंमि य अणायरो । जोगाणं दुप्पणीहाणं अट्ठहा वज्जिअव्वओ' ।। (प्र०सा० १२०७, १२०८, प्रमादपरिहारकुलकम् - ७, ८) त्ति । अनाभोगोऽत्यन्तविस्मृतिः । एतैः 'सदारे'' त्ति । स्वकलत्रविषये इत्वरिकव्रतभङ्गः कियत्कालावधि— गृहीतनियमलोपोऽष्टम्याद्यङ्गीकृतनियमभङ्गो वा, तस्मिन् जाते सति षड्लघु – षड्गुरु – चतुर्गुरवो भवन्ति ।