________________
सड-जीयकप्पो
पणकल्ल व (? वु) डुकुमारी - मयपइया ओहओ अ परदारे । छग्गुरुग साइ
खत्तिअदिआईसु ।।८४।।
व्याख्या
- बृहत्कुमारी प्रतीता, मृतपतिका विधवा तासु तथौघतः सामान्येन वक्ष्यमाणदासिकादिजघन्यादिपरस्त्रीविशेषं विना परदारेष्वज्ञातकुलाङ्गनासु गमने प्रत्येकं पञ्चकल्यम् । आदेशेन षड्गुरुकाः प्रायश्चित्तं भवति । विशेषतस्तु प्राह - 'छग्गुरु' ' इत्यादि । दासिकादिषु जघन्यपरस्त्रीषु गमने षड्गुरवः क्षत्रियाणीब्राह्मण्यादिषु मध्यमपरदारेषु गमने च षड्लघवश्च प्रायश्चित्तं भवतीति गाथार्थः । । ८४ ।। साम्प्रतमुत्तमपरस्त्रीगमनमधिकृत्य प्रायश्चित्तमाह .
ठक्कुरपिआइ छग्गुरु दस
पणकल्ला अनाय नाए वा ।
असिओ लक्खो मूलं पत्तं वाऽऽसज्ज पणकल्लं ।। ८५ ।।
व्याख्या -ठक्कुरो ग्रामाद्यधिपतिः तत्प्रियायां गमने, उत्तमपरदारगमने इत्येके । वाशब्दस्य चार्थत्वादज्ञाते जनाप्रसिद्धे, ज्ञाते जनप्रसिद्धे सति षड्गुरवो दश पञ्चकल्यानि च क्रमेण प्रायश्चित्तं भवन्ति । तथाहि लोकैरज्ञाते षड्गुरु, ज्ञाते पुनर्दश पञ्चकल्यानि क्षपणशतमित्यर्थः । 'असिओ लक्खो' ' इत्यादि । वाशब्द आदेशान्तरसूचकः । तत उत्तमपरकलत्रेण सह व्रतभङ्गेऽज्ञातेऽशीतिसहस्राधिकं स्वाध्यायलक्षं पञ्चचत्वारिंशत्कल्यानीत्यर्थः । ज्ञाते पुनर्मूलं प्रागुक्तलक्षणं च प्रायश्चित्तं भवति । ‘पत्तं वे’” त्यादि । वाशब्दोऽथवार्थोऽथवेदमन्यदादेशान्तरं तृतीयमित्यर्थः । तत उत्तमपात्रमासाद्य पञ्चकल्यमेव वा । अतिप्रसिद्धपात्रस्य तु मूलस्याप्यापत्तौ पञ्चकल्यमेव प्रायश्चित्तं प्रदेयम् न मूलमित्याप्तोपदेशः । अन्ये तु स्त्रियं प्रत्येवमाहुः - ‘सीलस्स बला भंगे लक्ख इत्थीइ सपणकल्लाणमि'' ति गाथार्थः ।। ८५ ।। साम्प्रतमत्रैव विशेषमाह
अथ स्त्रीविशेषगमनमधिकृत्य पुंसः प्रायश्चित्तमाह
—
...७७...
पणकल्लमनाए तीस - कल्ल नाए अछिप्पजाईसु ।
कल्लमणुतावि कीवे तिव्वभिलासे य पणकल्लं । । ८६ ।।
व्याख्या
- 'अछिप्पजाईसु' ' त्ति । अस्पृश्यजातिषु मातङ्गयादिपरस्त्रीषु गमनेऽज्ञाते जनाप्रसिद्धे पञ्चकल्याणम्, ज्ञाते तु त्रिंशत्कल्यानि स्वाध्यायलक्षयुतं पञ्चकल्याणमित्यर्थः । अन्ये तु केवलं स्वाध्यायलक्षमेवाहुः पञ्चाशत्क्षपणानीत्यर्थः । ' कल्लमणुतावि कीवे'' त्ति । 'व्याख्यानतो विशेषार्थप्रतिपत्ति' रिति न्यायात् क्लीबे क्लीबसेवनायां - नपुंसकसेवनायां अनुतापे पश्चात्तापे सति कल्यम् । तथा 'तिव्वभिलासे य पणकल्ल' मित्यादि । तीव्राभिलाषे तु पञ्चकल्यं प्रायश्चित्तं पुरुषस्य स्यादिति । यद्वा अनुतापिनः पश्चात्तापवतः क्लीबस्य
/