________________
सड- जीयकप्पो
...७०...] प्रत्येकवनस्पतीनां मनाक् संसर्शनं-सङ्घट्टनम् । अत्राह-ननु पृथिव्यादीनां चतुर्णां घटते सङ्घट्टनम् । अप्कायस्य तु कथं सचट्टनं सम्भवति ? तस्य द्रवरूपत्वेन स्पर्शमात्रेऽपि विनाशसम्भवात् । उच्यतेघटादिस्थस्याप्कायस्यापि मनाक् करचरणादिना चालने सङ्घट्टः सम्भवति । पीडा परितापनमुच्यते । तच्च द्विधा–अगाढं गाढं च । तत्र संमर्दनचालनाद्यैर्बहुतरं पीडोत्पादनमगाढं, बहुतमपीडोत्पादनं च गाढम् । वध उपद्रवः सर्वथा जीवविनाशः । स च पृथिव्यग्न्योरत्यन्तसम्मर्दनाद्यैरप्कायस्य तु वह्नितापनदण्डाद्यभिघातनपातनपादादिक्षालनादिना । वायोः तालवृन्ताभिघातादिना । वनसतेः पत्रपुष्पाकुरादित्रोटनादिभिः । ततश्चैषां पृथिव्यादीनां पञ्चानामपि प्रत्येकं सङ्घट्टने भिन्नमासः । अगाढपीडायां लघुमासः । गाढपीडायां गुरुमासः । वधे चतुर्लघु । 'दस पुरओ'। 'सवेहि वि दसगं'' ति । दशानां परतस्तु सर्वेषामप्येकादशाद्यसङ्ख्येयपर्यन्तानां सङ्घट्टनादिषु दशकमेव स्वप्रायश्चित्तानां दीयते । तथा चोक्तं यतिजीतकल्पवृत्तौ - 'एगाइ-दसतेसु एगाइदसतयं सपच्छित्तं । तेण परं दसगं चिय बहुएसु वि सगलविगलेसु' ।।
__ (जइजीयकप्पो १५६) अस्या अर्थः-एकादिषु दशान्तेषु पृथिव्यादिषु द्वीन्द्रियादिषु वोपहतेषु एकादि-दशान्तं स्वप्रायश्चित्तं भवति । यद्यस्य पृथिव्यादेभन्द्रियादेर्वोपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति, तत्तस्य स्वप्रायश्चित्तमुच्यते । तदेकस्य पृथिव्यादेीन्द्रियादेर्वा उपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोद्धे । त्रयाणां त्रीणि । यावद् दशानामुपघाते दश । 'तेने'' ति । पञ्चम्यर्थत्वात्तृतीयायाः । ततः परमेकादशादिषु बहुष्वपि यावद् सङ्ख्येयेष्वपि सकलविकलेषु पञ्चेन्द्रियविकलेन्द्रियेषु उपलक्षणत्वात् पृथिव्यादिषु वोपहतेषु दशकमेवदशैव स्वप्रायश्चित्तानि दातव्यानि भवन्तीत्यर्थः ।।७०।। अथ विकलेन्द्रियानन्तकाय-पञ्चेन्द्रियविषयं प्रायश्चित्तमाह -
विगलाणां ते सहसाणाभोगे वि लहु गुरु-लहुग-गुरुगा ।
पंचेंदिए पमाया गुरु - लहुअ- गुरुग- छलहुगा ।।७१।। व्याख्या-द्वित्रिचतुरिन्द्रियानन्तकायानां सहसाणाभोगे वि'' त्ति । अपिशब्दस्य वाऽर्थत्वात् सहसाकारादनाभोगाद्वा प्रत्येकं सङ्घट्टनाऽगाढपरिताप-गाढपरितापोपद्रवेषु यथासङ्ख्यं 'लहु-गुरु-लहुग गुरुग' त्ति । लघुमासगुरुमासचतुर्लघुचतुर्गुरूणि स्युः । अत्र पञ्चेन्द्रियाणां प्रमादान्निष्प्रयोजनं सचट्टादिषु जातेषु 'गुरु-लहुअ-गुरुअ-छलहुग'' त्ति । यथाक्रमं गुरुमास-चतुर्लघु-चतुर्गुरु-षड्लघूनि प्रायश्चित्तानि स्युः । अत्र पञ्चेन्द्रियसङ्घट्टः तदहर्जातमूषकगृहकोलिकादिविषयो द्रष्टव्य इति गाथार्थः ।।७१।। पुनरपि प्रथमाणुव्रतविषयमेव विशेषमाह -