________________
सड - जीयकप्पो
| ...६९... व्याख्या-साधारणद्रव्यं जिनद्रव्यं च यत् यावन्मानं भुक्तं स्वकार्ये व्यापारितं स्यात् । किं तदित्याहअशनं नैवेद्यादि वस्त्रं परिधापनिकादि कनकादि कनकरूप्यरूपकमौक्तिकादीनि । तस्मिंश्च तावन्मात्रे साधारणद्रव्ये देवद्रव्ये वा त्रिविधे जघन्यमध्यमोत्कृष्टरूपेऽशनादौ वस्त्रादौ कनकादौ च तत्र तस्मिन्नेव देवस्थाने चैत्यादौ अन्यत्र वा चैत्यादौ दत्ते सति चतुर्लघुचतुर्गुरुषड्लघूनि , प्रायश्चित्तानि यथाक्रमं भवन्ति । तस्मिन् तावन्मात्रे पुनरनर्पिते एतत्प्रायश्चित्ताङ्गीकरणेऽपि न शुद्धिरिति भावः । देवरथहारवणे पट्टिकापुस्तिकाकवलीजपमालानाशने क्वचिद् गुरुमासो दृश्यते । क्वचित्तु जपमालानिर्गमने एक कल्यम् । सम्यक्त्वविषयाः पञ्चाप्यतिचारा दर्शनाचारातिचारेष्वेवान्तर्भूता इति न तेषां पृथक् प्रायश्चित्तं प्रतिपादितमिति गाथार्थः ।।६९।। उक्तं दर्शनाचारातिचारविषयं प्रायश्चित्तम् । सम्प्रति चारित्राचारातिचारविषयप्रायश्चित्तप्रतिपिपादयिषया प्रथमं प्रथमाणुव्रतविषयं तदाह -
पुढवाइ-घट्टणाऽगाढ गाढपीडा-वहे अकजमि ।
भिन्नं लहु-गुरु लहुगा दस पुरओ सबेहि वि दसगं ।।७।। व्याख्या-इह च निषिद्धस्याचरणे तावत् प्रायश्चित्तम् । गृहिणश्च सार्थिका स्थावरकायहिंसा न निषिद्धा, निरर्थिका पुनर्निषिद्धैव । यदुच्यते ग्रन्थान्तरे - 'थूला सुहुमा जीवा संकप्पारंभओ अ ते दुविहा । सावराह निरवराहा साविक्खा चेव निरविक्खा'' ।।
(गाथासहस्री ७०, रत्नसञ्चयः २३७) अस्या अक्षरगमनिका-इह प्राणिवधो द्विविधः-स्थूलः स्थूलजीवानां सूक्ष्मः सूक्ष्मजीवानाम् । तत्र स्थूला द्वीन्द्रियादयः सूक्ष्माश्चेकेन्द्रियाः, न तु सूक्ष्मनामकर्मोदयवर्तिनः । तेषां उपघाताऽभावात् स्वयमायुःक्षयेणैव मरणात् । तत्र गृहस्थानां स्थूलप्राणिवधान्निवृत्तिः न तु सूक्ष्मवधात् । पृथिवीजलादिषु सततमारम्भप्रवृत्तत्वात् । विंशोपकाः १० । स्थूलप्राणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च । तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्पाज्जातः सङ्कल्पजः । आरम्भश्च कृष्याद्यारम्भप्रवृत्तस्य द्वीन्द्रियादिव्यापादनम् । तत्र श्राद्धानां सङ्कल्पजात् निवृत्तिरस्ति न पुनरारम्भजात् । अन्यथा शरीरकुटुम्बनिर्वाहाभावात् । वि० ५ । सङ्कल्पजोऽपि द्विधा-सापराधो निरपराधश्च । तत्र निरपराधान्निवृत्तिर्न सापराधात् । सापराधे तु गुरुलाघवचिन्तनं-यथा गुरुरपराधो लघुर्वा । विं० २१ । सापराधेऽपि सापेक्षनिरपेक्षक्रिययोः सर्वत्र सापेक्षेणैव भवितव्यं न तु निरपेक्षेण तस्य दयापरिणामाभावात् । विं० १ १, एवं सर्वप्रकारैर्जीववधनिवृत्तेर्विंशतिविंशोपकः साधुः। सपादविंशोपकश्च श्राद्धो दयाव्रतमाश्रित्येत्यर्थः । ततोऽकार्ये कारणाभावे पृथिव्यादीनां पृथिव्यप्तेजोवायु