________________
सड-जीयकप्पो
...६८...
लघुमासगुरुमासौ । तथा नाशिते स्थापनाचार्ये भिन्नम् । मतान्तरेण तु गुरुमासः । अप्रत्युपेक्षिते भिन्नम्, अप्रत्युपेक्षितस्थापनाचार्यपुरतोऽनुष्ठानकरणे लघुमासः, स्वाध्यायशतं वा केचित् प्रतिपादयन्तीति
गाथार्थः ।। ६६ ।
अथ जिनप्रतिमाशातनाविशेषविषयं प्रायश्चित्तमाह
—
पडिमाइ भंगदाहे पलीवणाइसु पमायणाभोगा ।
पट्टिअ - पुत्थाईण वि नवकारणपुव्व लहुगाई ।। ६७ ।।
व्याख्या - प्रदीपन धाटिप्रपात - ग्रामभङ्गादिषु प्रमादानाभोगाभ्यां प्रतिमाया भङ्गे दाहे नाशने वा । तथा पट्टिका पुस्तकादीनामपि भङ्गादिषु नवकारणपूर्वं तानि प्रतिमादीनि नवानि कारयित्वेत्यर्थः 1 'लहुगाई'' त्ति । चतुर्लघुचतुर्गुरुषड्लघूनि क्रमाद् भवन्ति । मतान्तरेण पुनः प्रतिमायाः प्रदीपनादौ ज्वलने नमस्कारलक्षम् । हस्ताद्यवयवभङ्गे तु नमस्कारदशसहस्रीति गाथार्थः । । ६७।।
अथ यतिद्रव्यपरिभोगे प्रायश्चित्तमाह -
मुहपत्ति - आसणासु भिन्नं जलन्नाईसु गुरु लहुगाइ ।
जइदव्वभोगि इय पुण वत्थाइसु देवदव्वं वा । । ६८ ।।
अथ साधारणदेवद्रव्यादिविषयं प्रायश्चित्तमाह
( द्र०स० ५८ )
व्याख्या - मुखवस्त्रिकाऽऽसनशयनादिषु, अर्थाद् गुरुयतिसत्केषु परिभुक्तेषु भिन्नम् । तथा 'जलन्नाईसु' ' त्ति । यतिसत्के जले अन्ने, आदिशब्दात् वस्त्रादौ कनकादौ च ।
।।१।।
'धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं नराधिपः ' " इत्यादिप्रकारेण केनापि साधुनिश्रया कृते लिङ्गिसत्के वा परिभुक्ते सति ‘'गुरुलहुगाई' त्ति । क्रमेण गुरुमासश्चतुर्लघव आदिशब्दाच्चतुर्गुरवः षड्लघवश्च स्युः । अयमर्थः - गुरुसत्के जले परिभुक्ते १ी । अन्ने ४ वस्त्रादौ भी कनकादौ ६ प्रायश्चित्तानि भवन्ति । यतिद्रव्य भोगे 'इय' ' त्ति । एवं प्रकारः प्रायश्चित्तविधिरवगन्तव्यः । अत्रापि पुनर्वस्त्रादौ देवद्रव्यवत् वक्ष्यमाणदेवद्रव्यविषयप्रकारवत् ज्ञेयम् । अयमर्थः - यत्र गुरुद्रव्यं भुक्तं स्यात् तत्राऽन्यत्र वा साधुकार्ये वैद्याद्यर्थं बन्दिग्रहादिप्रत्यपायापगमाद्यर्थं वा तावन्मितवस्त्रादिप्रदानपूर्वमुक्तं प्रायश्चित्तं देयमिति गाथार्थः ।। ६८ ।।
साहारण - जिणदव्वं जं भुत्तं असण-वत्थ - कणगाई ।
तत्थन्नत्थ व दिन्ने चउलहु - चउगुरुअ - छल्लहुगा । । ६९।।
( द्र०स० ५९ )