________________
सड़-जीयकप्पो
....७१...
अगलिअजलछड्डण-ण्हाण-पाण धुअ-ताव-घट्टणाइ छगुरु ।
पणकल्लं संखारय कोलिअ - कीडिअघराईसु ।।७२।। व्याख्या-अगलितजलस्य छर्दने त्यागे स्नाने तेनैव शरीरस्य प्रक्षालने ‘पाण'' त्ति । तस्यैव पाने, धावने तेनैव वस्त्रादिक्षालने, तापने तस्यैवोष्णीकरणे । आदिशब्दादुत्कालनाधिश्रयणादिदानेऽपि च षड्गुरुकं प्रायश्चित्तं भवति । तथा ‘पणकल्लं' ति । पञ्चाभक्तार्थाः पञ्चाचाम्लानि पञ्चैकाशनानि पञ्च पूर्वार्द्धाः पञ्च निर्विकृतिकानीत्येवंरूपं पञ्चकल्यं प्रायश्चित्तं भवति । केषु ? 'संखारये'' त्यादि । 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवती'' ति न्यायात् सङ्खारकस्य शोषे त्यागे वा, कोलिकानां लूतानां कीटिकानामुपदेहिकादीनां च गृहादिषु भग्नेषु, आदिशब्दाद् शुषिरवृत्यादिषु स्नानजलोष्णावश्रावणादिवाहनेऽशोधितेन्धनस्याग्नौ क्षेपे शिरसि कङ्कतकक्षेपेऽपि च भूरिजीवविराधनासम्भवात् पञ्चकल्यं प्रायश्चित्तं भवतीत्यर्थः । केचित्तु चतुर्गुरुकमेवाहुः । अन्ये चैतेषु पर्युषितगोमयस्थापनादिषु च षड्लघुकमेव । अन्ये पर्युषित (मेवं) गोमयस्थापने, पुजे वह्निदाने, त्रससंसक्तधान्यदलने, मत्कुणितशयनीयाद्यातपमोचने, चटकमालकभङ्गे, बहुवारं सूतिभवने तत्करणे चेति । निद्धंधसव्यापारत्वेन बहुजीवविराधनातश्च पञ्चकल्यम् । तथा सूतिकायां ही घरटिकोदूखलचूल्हिकादीनामप्रमार्जने भिन्नमासं प्रायश्चित्तं प्रतिपादयन्तीति गाथार्थः ।।७२।। अथ बहूनां द्वीन्द्रियादीनामुपद्रवे प्रकारान्तरेण प्रायश्चित्तविधिमाह -
दु-ति-चउ-पणकल्ला वा बहूसु दु-ति-चउ-पणिदिएसु कमा ।
दसवारउवरि दस पण (? पण्णास) कल्ल संकप्प दप्पे अ ।।७३ ।। व्याख्या-वाशब्दः प्रकारान्तरवाचकः । ततः प्रागेकेन्द्रियविषयप्रायश्चित्तप्रतिपादनावसरे 'दस पुरओ सव्वेहि वि दसग'' मित्यत्र सर्वेषामपि पृथिव्यादीनां वक्ष्यमाणद्वीन्द्रियादीनां चैकाद्यसङ्ख्येयपर्यन्तानां सङ्घट्टादिषु दशकमेव स्वप्रायश्चित्तानां दीयत इत्यादिनैकः प्रकारः प्रतिपादितः तदपेक्षयाऽयमन्यः प्रकार इत्यर्थः । ततश्च समुदायेन बहुषु द्वित्रिचतुरिन्द्रियेषूपहतेषु क्रमेण द्वित्रिचतुःपञ्चकल्यानि प्रदेयानि । अयमर्थः द्वीन्द्रियेषु बहुषूपहतेषुढे कल्ये । त्रीन्द्रियेषु त्रीणि कल्यानीत्यादि । अथ सङ्कल्पदर्पाभ्यां द्वीन्द्रियादीनामुपद्रवे विशेषमाहदशानां वाराणामुपरि एतेषु द्वित्रिचतुःपञ्चेन्द्रियेषु जीवेषूपहतेषु सङ्कल्पतो दश कल्यानि क्षपणविंशतिः । दर्पतः पुनः पञ्चाशत्कल्यानि क्षपणशतमित्यर्थः । अत्र सङ्कल्पः प्रयोजनं दर्पो धावनवल्गनवरण्डाद्युल्लचनमल्लयुद्धादिः । अत्र केचिच्चैवं वदन्ति-एकस्मिन् द्वीन्द्रिये उपहते क्षपणं, बहुषु क्षपणचतुष्कम् । त्रीन्द्रिये क्षपणत्रयं, बहुषु क्षपणषट्कम् । चतुरिन्द्रिये क्षपणचतुष्कं, बहुषु क्षपणाष्टकम् । पञ्चेन्द्रिये दर्पण