________________
सड- जीयकप्पो स्थापनाकुलानि प्रविशन्ति (प्रविशति) । अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते, तेषामपरिभोग्यतया जिनैः स्थापितत्वात् । तेभ्य आहारादिकमुत्पादयति । तथा सङ्घड्याः सततमाहारलौल्यतः प्रलोकनाय गच्छति । तथा संस्तवं द्विविधं-मातापित्रादिसम्बन्धयोजनारूपं पूर्वसंस्तवं श्वश्वादिनात्रकयोजनारूपं पश्चात्संस्तवं च करोति । उक्तः पार्श्वस्थः । साम्प्रतमवसन्नमाह - 'ओसन्नो वि अ दुविहो सव्वे देसे य तत्थ सव्वंमि । उडुबद्ध(अवबद्ध) पीढफलगो ठविअगभोई य मुणेयबो' ।।
(प्र०सा० १०६) व्याख्या-अवसन्नोऽपि च द्विविधो ज्ञातव्यो सर्वतो देशतश्च । तत्र सर्वतोऽवसन्नो य ऋतुबद्धपीठफलकः ऋतुबद्धकालेऽपि वर्षाकालं विनैवेत्यर्थः पीठफलकसेवकः । 'अबद्धपीठफलगो'' इतिपाठे तु यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति, यो वा नित्यावस्तृतसंस्तारकः सोऽबद्धपीठफलकः । तथा स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिकाभोजी । देशावसन्नमाह - 'आवस्सय-सज्झाए पडिलेहण-झाण-भिक्ख अभत्तट्टे । आगमणे निग्गमणे ठाणे अ निसीअण तुयट्टे'। ।।
(प्र०सा० १०७) व्याख्या-आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना । भावार्थस्त्वयंआवश्यकमनियतकालं करोति, यदि वा हीनं-हीनकायोत्सर्गादिकरणात्। अतिरिक्तं वा अनुप्रेक्षार्थमधिकाधिककायोत्सर्गकरणात् । अथवा दैवसिके आवश्यके कर्त्तव्यं तद् रात्रिके करोति, रात्रिके कर्त्तव्यं देवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणम् अर्थपौरुषीलक्षणं वा, कुरुध्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्टं जल्पित्वा करोति न करोति वा, सर्वथा विपरीतं करोति कालिकवेलायाम् उत्कालिकमुत्कालिकवेलायां कालिकं वा । तथा प्रतिलेखनामपि वस्त्रादीनामावर्त्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्यायति। तथा भिक्षां न हिण्डते । गुरुणा वा भिक्षां नियुक्तो गुरुसंमुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते । तथा भक्तार्थं भक्तविषयं प्रयोजनं सम्यग् न करोति । किमुक्तं भवति-न मण्डल्यां समुद्दिशति । काकशृगालादिभक्षितं वा करोति । अन्ये तु व्याचक्षते 'अभत्तट्ट' त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणम् । ततोऽयमर्थः-प्रत्याख्यानं न करोति, गुरुणा वा भणितो गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा करोति । आगमे नैषेधिकीं न करोति निर्गमने आवश्यकीं च । स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने त्वग्वर्त्तने शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणां करोति। नापि प्रमार्जनां करोति । अथवा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे करोति । गतोऽवसन्नः । साम्प्रतं कुशीलमाह'तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पण्णत्तो वीयरागेहिं'। ।।
(प्र०सा० १०९)