________________
सड्डीको
-
-
व्याख्या – त्रिविधः त्रिप्रकारो भवति कुशीलः । कथमित्याह - ज्ञाने तथा दर्शने चारित्रे च । एष कुशीलोऽवन्दनीयः प्रज्ञप्तो भणितो वीतरागैः तीर्थकृद्भिः । प्रकारत्रयमेवाह
' 11
'नाणे नाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ' ' व्याख्या - यो ज्ञानाचारं कालादिकं 'काले विणए' ' इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणलक्षणो भवति । तमेवाह
1
...६४...
'कोउअ भूईकम्मे पसिणापसिणे निमित्तमाजीवी । कक्ककुरुयाइ लक्खण उवजीवइ विज्जमंताई' ।
" 11
( प्र०सा० १११ ) व्याख्या -कौतुकं नाम आश्चर्यम् । यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति नासिकया वा । तथा मुखादग्निं निष्काशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते एतत्कौतुकम् । उक्तं च —
'सोहग्गाइनिमित्तं परेसिं ण्हवणाइ कोउयं भणिय' ' मिति (प्र०सा० ११२ ) । तथा भूत्यादिकर्म नाम यत् ज्वरितादीनामभिमन्त्रितेन क्षारादिना रक्षाकरणम् । 'जरियाइ भूइदाणं भूईकम्मं विणिद्दिद्वं इतिवचनात् । प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । उक्तं च
तद्यथा
सुविगविज्जाकहियं आइंखिणिघंटियाइकहिअं वा । जं सासइ अण्णेसिं पसिणापसिणं हवइ एअं ।। (प्र०सा० ११३ ) निमित्तमतीतादिभावकथनम् । तथा आजीवो नाम आजीविका । स च जात्यादिभेदः सप्तप्रकारः । तदुक्तम्'जाईकुले गणे अ कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीवं उवजीवइ जो कुसीलो उ' ।। तत्र जात्यादयः प्रागुक्तस्वरूपाः । तपः श्रुते प्रतीते । एनं सप्तविधमाजीवं य उपजीवति जीवनार्थमाश्रयते । जातिं कुलं वात्मीयं लोकेभ्यः कथयति, येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्ध्या मल्लगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वम्, कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति । तपस उपजीवना तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथयति । श्रुतस्योपजीवना बहुश्रुतोऽहमिति जनेभ्यः कथयति । इति सप्तविध आजीवनाकुशलः । तथा कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनमथवा आत्मनः शरीरस्य देशतः सर्वतो वा रोध्रादिभिरुद्वर्त्तनम् । तथा कुरूका देशतः सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं पुरुषलक्षणादि, विद्यामन्त्रौ प्रसिद्धौ । आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः । एतानि य उपजीवति स चरणकुशीलो, निरूपितः कुशीलः । अधुना संसक्तप्ररूपणामाह—
"