________________
___ सड्ड- जीयकप्पो अथ कारणे पार्श्वस्थादीनामवन्दनेऽपि श्राद्धानां प्रायश्चित्तं भवतीत्येतत्प्रतिपादयति -
उपन्नकारणमि किइकम्मं जो न कुज्ज दुविहं पि । पासत्थाईआणं उग्घाया तस्स चत्तारि ।।६२।।
(बृ०क० ४५४०) व्याख्या-श्रीसङ्घगच्छादिकार्येऽनन्यसाध्ये उत्पन्ने सति कृतिकर्म वन्दनकं यः श्राद्धादिर्न कुर्यात् द्विविधमपि अभ्युत्थानवन्दनकरूपम् । केषाम् ? पार्श्वस्थादीनां पार्श्वस्थावसन्न-कुशील-संसक्त-यथाछन्दानां किं तस्य प्रायश्चित्तम् ? इत्याह– 'उग्धाया तस्स चत्तार'' त्ति । 'उग्धाया नाम जं संतरं दाणं लघुमित्यर्थ' इति निशीथचूर्णिवचनादुद्घाता लघवः तस्य श्राद्धस्य चत्वारः चतुर्लघुप्रायश्चित्तं भवतीति भावार्थः । अत्र किञ्चित् पार्श्वस्थादीनां स्वरूपमावश्यकान्तर्गतवन्दननियुक्त्यादिगाथाभिः स्पष्टीक्रियते - 'सो पासत्थो दुविहो देसे सम्बे अ होइ नायबो । सबंमि नाणदंसणचरणाणं जो उ पासंमि' ।।
(आ०नि० ११०७) व्याख्या–स पार्श्वस्थो द्विविधो द्विप्रकारः तद्यथा-देशे देशतः सर्वस्मिन् सर्वतः । तत्राल्पवक्तव्यत्वात् सर्वत आह-सव्वंमी, त्यादि । सर्वस्मिन् । एष सर्वतः पार्श्वस्थः उच्यते इत्यर्थः । कः ? इत्याहज्ञानम् अभिनिबोधिकादि दर्शनं सम्यक्त्वं चारित्रम् आश्रवनिरोधः । एतेषां यः पार्श्वे तटे वर्तत इति वाक्यशेषः । ज्ञानादिषु नान्तर्गत इत्यर्थः । देशतः पार्श्वस्थमाह - 'देसंमि य पासत्थो सिज्जायरभिहडरायपिंडं वा । नीयं च अग्गपिंडं भुंजइ निक्कारणं चेव' ।।
(प्र०सा० १०५, आ०नि० ११०७) व्याख्या- 'देसमी' ति । देश एष देशतः पार्श्वस्थ उच्यते । कः ? इत्याह-यः शय्यातराभ्याहृत राजपिण्डमग्रपिण्डं च भुङ्क्ते निष्कारणमेव । तथा – 'कुलनिस्साए विहरइ ठवणकुलाणि अ अकारणे पविसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ।।।
(आ०नि० ११०७) व्याख्या–कुलनिश्रया विहरति, यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि तानि येषु ग्रामेषु नगरेषु वा वसन्ति तेषु गत्वा तेभ्य आहारादिकमुत्पादयतीत्यर्थः । तथा अकारणे कारणाभावेऽपि