________________
- जीयकप्पो
...६१...
सड - अयमर्थः–यद् यस्य द्वीन्द्रियादेरुपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति तस्य स्वप्रायश्चित्तमुच्यते । तच्चैकस्य द्वीन्द्रियादेरुपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोरुपघाते द्वे स्वप्रायश्चित्ते भवतः । त्रयाणामुपघाते त्रीणि तानि भवन्ति । यावद्दशानामुपघाते दश स्वप्रायश्चित्तानि स्युः । ततः परमेकादशादिषु बहुष्वपि यावदसङ्ख्येयेष्वपि द्वीन्द्रियादिषूपहतेषु दशैव स्वप्रायश्चित्तानि भवन्तीति । यदुक्तं सामाचार्याम्
· 11
'एगाइदसंतेसु एगाइदसंतयं सपच्छित्तं । तेण परं दसगं चिय बहुसु वि सगलविगलेसु ' ( जइजीयकप्पो १५६ ) अयमाधाकर्मादिषु प्रायश्चित्तविधिः 'गुरुग - जईणमगाढे'' इत्यादिगाथासंसूचितो यतिजीतकल्पोक्त– रीत्या ग्राहकसाध्वनुसारेणैव दायकस्यापि श्राद्धादेरुक्तोऽन्यत्र क्वापि तद्विधेः पृथगदर्शनादिति गाथार्थः ।। ५९।।
अथ साधोः पार्श्वाल्लेखशालाद्यात्मीयकार्यकारणे श्राद्धस्य प्रायश्चित्तं पादोनगाथाद्वयेन निरूपयतिसाहूहिं लेहसालं चिच्छि - चप्पुडिअ - रक्खडी - खडिअं । कयविक्कयमेसिमेहिं वा ।। ६० ।।
सिसुकीलण - घरकम्मं कंकणिअ - कंडगाई पणकल्लं
गणत्ति आहारपोअणाइ
कारिं
तहा ।
लहू तदब्भंगपयधुवणे ।। ६१ ।।
व्याख्या- साधुभिर्लेखशालां शिशुपाटनरूपां कारिते 'पणकल्ल' ' मित्यस्य द्वितीयगाथातृतीयपदवर्त्तिनः सर्वत्र योगात् यदि श्राद्धः कारयति तदा पञ्चकल्यं प्रायश्चित्तं भवति । एवं 'चिगिच्छ' 'त्ति । चिकित्सां रोगप्रतीकारम् । ‘चप्पुडिअ ' ' त्ति । चप्पुटिकाम् । 'रक्खडी' ' त्ति । रक्षाटिकाम् । 'खडिअं' ' ति । खटिकाम् । 'सिसुकीलणे' ' त्ति । शिशुक्रीडनम् । 'घरकम्मं ' ' ति । गृहकर्म च धवलनचित्रकरणादि। एतानि सर्वाण्यपि श्राद्धो यदि साधुभिः कारयति तदा श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । 'कयविक्कयमेसिमेहिं व' ' त्ति । तथैतेषां साधूनां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे । तथैतैर्वा साधुभिः स्वसम्बन्धिवस्तुनः क्रयविक्रययोर्विधापने च श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति प्रथमगाथाक्षरार्थः । कङ्कणिका कराभरणं कंडगं वलयं आदिशब्दादन्याभरणसमारचनादि । 'गणत्ति आहारपोअणाइ तह' ' त्ति । तथा गणेत्रिकाहारप्रोतनादि, आदिशब्दादन्यदप्येवंविधं साधुजनानुचितं गृहकर्म गृहस्थः साधुभिर्यदि कारयति तदा गृहस्थस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । तथा 'लहू तदब्भंगपयधुवणे'' त्ति । तेषां साधूनां श्राद्धेन गात्राभ्यङ्गदाने पादधावने च श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति द्वितीयगाथाक्षरार्थः । । ६०-६१।।