________________
सड-जीयकप्पो
अनन्तकायपरम्परनिक्षिप्त-पिहित-संहृतोन्मिश्रानन्तकायनिरन्तरनिक्षिप्त-पिहित-संहृतानि, दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां गाढपरितापं कुर्वाणा द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनामगाढपरितापं कुर्वाणा, पञ्चेन्द्रियाणां सङ्घट्ट कुर्वाणा, च मिश्रानन्तकायोन्मिश्रम् अनन्तकायपरम्परछर्दितम् , मिश्रानन्तकायनिरन्तरछर्दितम् च गृह्यन्ते । तथा 'लहु उद्दिसिए' । त्ति । कृतोद्देशकोद्दशादिषु प्रागपि प्रायश्चित्तस्याभिहितत्वादत्रौद्देशिकशब्देनोद्दिष्टोद्देशाद्यौद्देशिकाद्यभेदचतुष्टयं गृह्यते । ततश्च उद्दिष्टोद्देशादिभेदचतुष्टयदोषवदन्नपानादि ददानस्य श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति । अत्रोपलक्षणत्वादुपकरणपूतिः, चिरस्थापना, प्रादुष्करणाऽऽद्यभेदः प्रकटकरणरूपः, परभावक्रीतम्, स्वग्रामाभ्याहृतम्, दर्दरोद्भिन्नम्, जघन्यमालापहृतम्, यावदर्थिकमिश्ररूपोऽध्यवपूरकाद्यभेदः, सेटिकादिपृथ्वीकायम्रक्षितम्, उदकार्द्ररूपमप्कायम्रक्षितम्, प्रत्येकवनस्पतिम्रक्षितम्, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्त-पिहित-संहृतानि, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्तपिहित-संहृतानि, दायकदोषमाश्रित्य कर्त्तयन्ती, लोढयन्ती, पिञ्जयन्ती, विकीर्णयन्ती, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामगाढपरितापं कुर्वाणा, द्वित्रिचतुरिन्द्रियानन्तकायवनस्पतीनां सङ्घद्धं कुर्वाणा च । मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पत्युन्मिश्रम् , मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिपरिणतम्, सचित्तपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दितम् , मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु निरन्तरछर्दितं च गृह्यते । तथा 'पणग ठविए' 'त्ति । चिरस्थापनायां प्राग् लघुमासस्योक्तत्वाद् अत्र स्थापनाशब्देनेत्वरस्थापना गृह्यते । तत इत्वरस्थापनादोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं भिन्नमासः प्रायश्चित्तं भवतीति । अत्राऽप्युपलक्षणत्वात् सूक्ष्मप्राभृतिका, सरजस्कम्रक्षितम्, सस्निग्धरूपमप्कायमेक्षितम्, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्तपिहितसंहतानि, दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्ट कुर्वाणा, प्रत्येकानन्तबीजोन्मिश्ररूपं बीजोन्मिश्रम्, प्रत्येकानन्तबीजाऽपरिणतरूपं बीजाऽपरिणतम्, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दितम्, प्रत्येकानन्तबीजेषु निरन्तरपरम्परछर्दितम्, मिश्रानन्तकायपरम्परछर्दितं च गृह्यते । ततः सूक्ष्मप्राभृतिकादिदोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं भिन्नमासः प्रायश्चित्तं भवतीति। तथा प्रथममेषणादोषं शङ्कितमाश्रित्य दायकः साधोरन्नपानादि ददानो यं यं दोषं शङ्कते प्रागुक्ततत्तद्दोषप्रायश्चितवान् भवति । तथाऽनेकद्वीन्द्रियाद्युपघातं कुर्वन्त्यास्तु दात्र्या यावतां द्वीन्द्रियादीनामुपघातः कृतः तावन्ति स्वप्रायश्चित्तानि भवन्ति ।