________________
- जीयकप्पो
सड्डू -
...५९...
सप्तचत्वारिंशद् भवन्ति । इत्युक्तमाधाकर्मादिदोषस्वरूपम् । अथैतेषु षोडशोत्पादनादोषाणां (चतुर्णां ) ग्रासैषणादोषाणां च साधुप्रभवत्वात् तेषु न श्राद्धानां प्रायश्चित्तसम्भवः । षोडशोद्गमदोषेषु गृहस्थप्रभवत्वात् सर्वेषु एषणादोषाणां तूभयप्रभवत्वाद् येषु श्राद्धानां प्रायश्चित्तसम्भवो यथायोगं तेषु तेषु सङ्क्षेपेण प्रायश्चित्तमतिदिशति -
गुरुग जईणमगाढे दिते कम्माइ लहु मीसाई ।
अज्झोयराइ गुरुगो लहु उद्दिसिए पणग ठविए ।। ५९।।
व्याख्या– ‘गुरूग जइणमगाढे दिंते कम्माइ' त्ति । यतीनामगाढे तथाविधग्लानादिगाढकार्याभावे आधाकर्म्मादिगुणे गुणवदुपचारादाधाकर्मादिदोषवदन्नपानादि ददानस्य श्राद्धस्य चतुर्गुरु प्रायश्चित्तं भवतीति । एवमग्रेऽपि भावना कार्या । अत्रादिशब्दात् कर्मसमुद्देशाद्यौद्देशिक भेदत्रयम्, पाखण्डिमिश्र— जातयतिमिश्रजातरूपमिश्रजातान्त्यभेदद्वयम्, बादरप्राभृतिका, सप्रत्यपायपरग्रामाभ्याहृतम्, अचित्तगुरुद्रव्यपिहितम्, अनन्तकायानन्तरनिक्षिप्तपिहितसंहृतानि तथा दायकदोषमाश्रित्य प्रगलत्पादुकारूढौ, द्वित्रिचतुरिन्द्रियानन्तकायोपद्रवं कुर्वाणा, पञ्चेन्द्रियोपद्रवं कुर्वाणायाः शास्त्रान्तरे षड्लघुकस्योक्तत्वात् पञ्चेन्द्रियगाढपरितापं कुर्वाणा च, सचित्तानन्तकायोन्मिश्रम्, अनन्तकायाऽपरिणतम्, अनन्तकायनिरन्तरछर्दितं
गृह्यते । ततः कर्मोद्देशादिदोषवदन्नपानाद्यपि ददानस्य श्राद्धस्य चतुर्गुरु प्रायश्चित्तं भवतीति भावः । तथा 'लहुग मीसाई' ' त्ति । मिश्रजातेऽन्त्यभेदद्वये चतुर्गुरुप्रायश्चित्तस्योक्तत्वात् शेषयावदर्थिकमिश्रजातादिदोषवदन्नपानादि ददानस्य श्राद्धस्य चतुर्लघु प्रायश्चित्तं भवति । अत्राप्यादिशब्देन कर्मेद्दशम्, प्रकाशकरणरूपप्रादुष्करणान्त्यभेदम् क्रीताऽऽद्यभेदत्रयम्, लौकिकप्रामित्यपरावर्त्तिते, निष्प्रत्यपायपरग्रामाभ्याहृतम्, लिप्तोद्भिन्नम्, कपाटोद्भिन्नम्, उत्कृष्टमालापहृतम्, त्रिविधमप्याच्छेद्यम्, त्रिविधमप्यनिसृष्टम्, निर्मिश्रकर्दमम्रक्षितम्, अप्कायम्रक्षितभेदौ पुरः कर्मपश्चात्कर्मणी, गर्हिताचित्तम्रक्षितम्, अगर्हितसंसक्ताचितम्रक्षितम्, तेजोवायुप्रत्येकवनस्पतित्रसकायनिरन्तरनिक्षिप्तपिहितसंहृतोन्मिश्राणि तथा दायकदोषमाश्रित्य स्थविरादय आद्याः सप्तविंशतिर्दायकाः, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामुपद्रवं कुर्वाणा, द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनां गाढपरितापं कुर्वाणा, पञ्चेन्द्रियस्यागाढपरितापं कुर्वाणा दात्री च पृथिव्यादिष्वनन्तरछर्दितं च गृह्यन्ते । तथा - 'अज्झोयराइ गुरूगो' त्ति । अध्यवपूरकाद्यभेदे लघुमासस्याभिधास्यमानत्वादन्त्यभेदद्वयं ग्राह्यम् । ततोऽध्यवपूरकान्त्य भेदद्वयादिदोषवदन्नपानादि ददानस्य श्राद्धस्य गुरुकं गुरुमासः प्रायश्चित्तं भवति । अत्र पुनरादिशब्दतश्चतुर्विधं कृतौद्देशिकम्, मध्यमं मालापहृतम्,