________________
सङ्क-जीयकप्पो
| ...५८... कुथितमपक्वमसंस्कृतमलवणं चेति निन्दति तद्भोजनं धूमम् । द्वेषाग्निना चरणेन्धनस्य स धूमोपमत्वकरणात्। आह च- 'तं पुण होइ सधूमं जं आहारेइ निंदतो' ।। (पिं०नि० ६५५ उत्तरार्द्ध) ४। अकारणं नाम कारणाभावेऽप्याहारग्रहणम् । इह साधूनामाहारग्रहणकारणानि षट् भवन्ति । तानि चामूनि'वेअणवेयावच्चे इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए छटुं पुण धम्मचिंताए। ।।
(पिं०नि० ६९८, पंचवस्तुक० ३६५) अस्या अर्थः-वेदना बुभुक्षारूपा पीडा तदुपशमनाय । यदुक्तं- 'नत्थि छुहाइ सरिसआ विअणा भुंजिज्ज तप्पसमणट्ठा' । (पिं०नि० ६६३ पूर्वार्द्ध) तथा आचार्यादीनां वैयावृत्यकरणाय । यदाह- 'छाओ वेयावच्चं न तरइ काउं अओ भुंजे । (पिं०नि० ६६३ उत्तरार्द्ध) तथा ईर्यापथसंशोधनार्थम् । बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुं न शक्नोति । तथा संयमः प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थं तत्परिपालननिमित्तम् । तथा प्राणप्रत्ययार्थं प्राणधारणार्थम् । षष्ठं पुनः धर्मचिन्तार्थं सूत्रानुचिन्तनादिरूपधर्मध्यानाभिवृद्ध्यर्थं भुजीतेति क्रियासम्बन्धः । षड्भिस्तु कारणैः साधुन भुञ्जीत । तानि चेमानि'आयके उवस्सग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदयातवहेउं सरीरखुच्छेयणट्ठाए'' ।।
(पिं०नि० ७०२) अस्या अर्थ:-आतङ्के ज्वराजीर्णादावुत्पन्ने सति नाश्नीयात् । तथा उपसर्गे राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सआते सति तितिक्षार्थमुपसर्गसहनार्थं न भुञ्जीत । तथा ब्रह्मचर्यगुप्तिष्वित्यत्र षष्ठ्यर्थे सप्तमी । ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् । तथा प्राणिदयाहेतोः वर्षे वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाश्नीयात् । सूक्ष्ममण्डूक्यादिसंसक्तायां वा भूमौ प्राणिदयार्थमटनं परिहरन्न भुजीतेति भावः । तथा तपः चतुर्थादिलक्षणं तद्धेतोः तत् करणनिमित्तं नाद्यात् । तथा शिष्य निष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमकाले-पाश्चात्यवयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरस्य व्यवच्छेदार्थं भोजनं परिहरेत् नान्यथा । यतः शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः । ततश्च यानि षडाहारग्रहणकारणान्यभिहितानि (तानि) विनापि बलरूपादिनिमित्तं रसगृद्धया वा य आहारो गृह्यते तदकारणं भोजनम् । तथा कारणानि यान्याहारग्रहणविषये प्रदर्शितानि तेषु समुत्पन्नेष्वप्याहाराग्रहणे दोषः । ननु आहाराग्रहणं तपोरूपं तपश्च परमपदप्रापणप्रवणकारणगणाग्रेसरम् । अतः कथं तस्मिन् विधीयमाने दोषसम्भवः ? भवानुबन्धिसावधव्यापारनिबन्धनत्वाद् दोषापत्तेः । सत्यम्, परं तपोऽपि जिनाज्ञयैव विधीयमानं सिद्धिनिबन्धनं सम्पद्यते । अन्यथा तु क्रियमाणं तदपि भवानुबन्ध्येव भवेत् । अतस्तस्मिन् तथाविधे दोषापत्तिरपि सम्भाव्यते इति ५ । इति पञ्च ग्रासैषणादोषाः । सर्वे मीलिताः