________________
सङ्घ-जीयकप्पो
|...५७... 'रसहेउं संजोगो पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य ।।
(पिं०नि० ६७७) पिण्डाधिकाराच्च पिण्डविषयैवैषा संयोजनाऽभिहिता । एवमुपकरणविषयाऽपि साऽवगन्तव्या १। अथातिप्रमाणदोषः । तत्र साधोर्यावन्मात्रेण द्वात्रिंशत्कवलादिप्रमाणेनाहारेण भुक्तेन धृतिबलसंयमयोगा न हीयन्ते तावन्मात्रमाहारप्रमाणं भोजने विज्ञेयम् । कुकुड्यण्डकप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयते'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला' ।।
(पिं०नि० ६७८) उदरभागापेक्षं त्वेवम् - 'अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा छन्भागं ऊणगं कुज्जा' ।।
(पिं०नि० ६८६) प्रकामनिकामप्रणीतभक्तपानातिबह्वाहारातिबहुवारभोजनादौ च प्रमाणातिक्रमदोषः स्यात् । यदुक्तम् - 'पगामं च निगामं च पणीअं भत्तपाणमाहरे । अइबहुअं अइबहुसो पमाणदोसो मुणेयब्बो' ।।
(पिं०नि० ६८०) तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुानस्य प्रकामभोजनम् । तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् । गलत्स्नेहं भोजनं प्रणीतम् । अतिशयेन निजप्रमाणातिरेकेण बहु अतिबहु । त्रिभ्यो वारेभ्यः परतो भोजनमतिबहुशः । अतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति । अतः प्रमाणातिक्रमो न कर्त्तव्यः प्रमाणयुक्तमेव च भोक्तव्यम् । तस्यैव गुणावहत्वात् । यदाह - 'अप्पाहारस्स न इंदियाई विसएसु संपवटुंति । नेव किलिस्सइ तवसा रसिएसु न मुज्झए आवि।। तथा
(पंचवस्तुक० १३९२) 'हिआहारा मिआहारा अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छिगा' ।।
(पिं०नि० ६८४) २। अङ्गारं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मृष्टमहो ! सुसम्भृतं सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमङ्गारम्, चरणेन्धनस्य प्रदीप्तरागाग्निना अङ्गारसन्निभत्वापादनात् । यदुक्तं - 'तं होइ सइंगालं आहारेइ मुच्छिओ संतो' । (पिं०नि० ६५५ पूर्वार्द्ध) ३ । धूमं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सन्नहो ! विरूपं