________________
जीयकप्पो
सड्डू -
...५६...
छर्दितग्रहणे च षड्जीवनिकायविराधनादयो दोषाः सम्भवन्ति । तत्र च मधुबिन्दूदाहरणम् । तच्चेदं— चम्पानगर्यां धर्मघोषो मन्त्री । तस्य प्रियङ्गुनाम्नी भार्या । एकदोत्पन्नवैराग्यः स प्रवब्राज । कालेनाधीतैकाद— शाङ्गादिश्रुत एकाकिविहारप्रतिमाप्रतिपन्नो वारत्तयपुरेऽभयसेनराजाऽमात्यवारत्तयगृहे भिक्षार्थं गतः । भूमौ स घृतक्षीरबिन्दुनिपातादगृहीतभिक्ष एव गतः । क्षीरबिन्दौ मक्षिकाः समागताः । ता दृष्ट्वा तत्र गृहकोलिकः । तदुपरि दुष्टमार्जारः । तं प्रति कुतश्चिदासन्नग्रामागतराजपुत्रश्वा, तं प्रति वास्तव्यराजपुत्रश्वा । ततश्च शुनोः परस्परं युद्धे जायमाने तत् स्वामिनोर्युद्धमजनि । एतत्सर्वं गवाक्षस्थेन मन्त्रिणा दृष्टम् । ततश्च मन्त्रिणोत्तीर्य वारितौ श्वप्रभू । मन्त्री चिन्तयति-अत एव मुनिना भिक्षा न गृहीता । सञ्जातजातिस्मृतिर्दीक्षां लात्वा वारत्तयमुनिः सुंसुमारपुरे गत्वा देवकुले प्रतिमया स्थितः । इतश्च तत्र धुन्धुमारराजपुत्रीमङ्गारवतीं चण्डप्रद्योतो याचते । राजा न दत्ते । चण्डप्रद्योतेन पुरं वेष्टितम् । नैमित्तिकश्च श्रुतिं विलोकयन् रात्रौ बालकानि भापयति । तानि तं दृष्टवा यत्र देवकुले वारत्तकमुनिः प्रतिमया स्थितः तत्र गच्छन्ति । सहसा ' मा भैष्ट' इति साधुनोक्ते नैमित्तिको पृष्टः सन् राज्ञे वक्ति तव जयोऽस्ति । राज्ञा युद्धं कृतं । चण्डप्रद्योतो बद्धः पुनः सत्कार्य सन्मान्य पुत्री दत्ता । चण्डप्रद्योतः कियन्ति दिनानि स्वपुरे स्थापितः । ततश्चण्डप्रद्योतेन बलाल्पं दृष्ट्वा सा पृष्टा कथमहं बद्धः ? तयोक्तं मुनिप्रोक्तशकुनबलेन । ततश्चण्डप्रद्योतेन 'हे नैमित्तिक साधो ! तुभ्यं नम' इत्युपहासे कृते वारत्तकमुनिराप्रव्रज्यादिनादतीचारमपश्यन् बालव्यतिकरं स्मृत्वा प्रतिक्रम्य मुक्तिं गत इति १० । एते दश ग्रहणैषणा दोषा भवन्ति । अथ ग्रासैषणादोषास्ते च पञ्च । यदुक्तम् -
'संजोअणा पमाणे इंगाले धूमऽकारणे पढम' ' त्ति । गाथापूर्वार्द्धम् । तत्र पूर्वं संयोजना सा च द्विधा - बाह्या अभ्यन्तरा च । तत्र वसतेर्बहिरेव भिक्षामटन् साधू रसगृद्ध्या दुग्धदध्योदनादीनां द्रव्याणामनुकूलद्रव्यैः सह संयोजनं रसविशेषोत्पादनाय यत्करोति सा बाह्या संयोजना । अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति । सा च त्रेधा - पात्रे कवले वदने च । तत्र यद् द्रव्यं यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्ध्या संयोजयति । यथा सुकुमारिकादिकं खण्डादिना सह । एषा पात्रेऽभ्यन्तरा संयोजना । यदा तु हस्तगतमेव कवलतयोत्पाटितं सुकुमारिकादिचूर्णं खण्डादिना सह संयोजयति तदा कवले । यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति यद्वा मण्डकादिकं पूर्वं प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा मुखे । रसगृद्ध्या च बाह्यद्रव्याणां संयोजनां कुर्वन्नात्मनो ज्ञानावरणीयादिकर्मपुद्गलसमूहैः सह संयोजनां करोतीति निषिद्धा संयोजना । वर्द्धिष्णुघृतादिनिगमनार्थं संयोगोऽनुज्ञातस्तीर्थकृदादिभिः । तत्परिष्ठापने पश्चादपि कीटिकादिबहुसत्त्वोपघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् । एवं ग्लानाद्यर्थमपि संयोजना न दुष्टा । यदुक्तम् -
-