________________
सङ्घ-जीयकप्पो
...५१... 'संकिअ मक्खिअ निक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय लित्त छड्डीय एसणदोसा दस हवंति' ।।
(पिं०नि० ५५७) एतस्या व्याख्या-शङ्कितं नाम आधाकर्मादीनां षोडशोद्गमदोषाणां म्रक्षितादीनां च नवैषणादोषाणां मध्ये भक्तादेर्ग्रहणे भोजने वा यं यं दोषं शङ्कते तद् भक्तपानादि तत्तदोषशङ्कितं भवति, तद्ग्राही तत्तद्दोषसमानदोषवान् भवतीत्यर्थः । अत्र च चत्वारो भङ्गाः । शङ्कितग्राही शङ्कितभोजी १ शङ्कितग्राही निःशङ्कितभोजी २ निःशङ्कितग्राही शङ्कितभोजी ३ निःशङ्कितग्राही निःशङ्कितभोजी ४ च । अत्र द्वितीयचतुर्थभङ्गो शुद्धौ, द्वयोरपि भोजनस्य निःशङ्कितत्वेन निर्दोषत्वात् । द्वितीयभङ्गभाविनः शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्भवात् । शेषभङ्गद्धये पुनः शङ्कितदोषसमानं दोषमापद्यत इति १ । म्रक्षितं द्विधा-सचित्ताचित्तभेदेन । तत्राद्यं पृथिवी-जल-वनस्पतिभेदेन त्रेधा । तत्र पृथिवीम्रक्षितं चतुर्द्धा-सरजस्कं-सचित्तपृथिवीरजोवगुण्ठितं देय-हस्त-मात्रकादि तच्च तन्मक्षितं च सरजस्कम्रक्षितम्। तथा सेटिकोषादिम्रक्षितम्ऊषमृत्तिकाहरितालहिङ्गलकमनःशिलाजनलवणगैरिकसेटिकादिप्रथिवीकायमक्षितमित्यर्थः । निर्मिश्रोऽपरिणतः सचेतनः, मिश्रः सचित्ताऽचित्तरूप एवंविधो यः कर्दमस्तेन म्रक्षितं निर्मिश्रकर्दमम्रक्षितं मिश्रकर्दमम्रक्षितं चेत्यर्थः । अपकायमक्षितमपि चतुर्द्धा-पुरःकर्म पश्चात्कर्म सस्निग्धं उदकाच । तत्र दानात् पूर्वं हस्तमात्रकयोः क्षालने पुरःकर्म, दानानन्तरं क्षालने पश्चात्कर्म, सस्निग्धमीषल्लक्ष्यमाणजलखरण्टितं हस्तादि, उदकार्द्र स्पष्टोपलभ्यमानजलसंसर्गम् । वनस्पितिकायम्रक्षितं तु द्वेधा-प्रत्येकानन्तभेदेन । पृथिवीम्रक्षितं वनस्पतिम्रक्षितं चानन्तरपरम्परभेदेन प्रत्येकं द्विविधम् । अचित्तम्रक्षितं पुनर्बेधा-मांसवसाशोणित - सुरामूत्रोच्चारादिगर्हितैक्षितं गर्हिताचित्तम्रक्षितम् । तथा संसजन्ति–विलगन्ति सलेपत्वात् कीटिकामक्षिकादि जन्तवो येषु तानि संसक्तानि तैरगर्हितैरचितैर्मक्षितमगर्हितसंसक्ताचित्तम्रक्षितम् २ । निक्षिप्तं पृथिव्यादिषु स्थापितं तद्विधा-अनन्तरं परम्परं चेति । देयं वस्तु पृथिव्यादिषु निरन्तरं सान्तरं वा स्थापितं भवतीति द्विधा निक्षिप्तमित्यर्थः ३ । पिहितं नाम यद् देयमशनादि वस्तु केनाऽप्यपरेण वस्तुना स्थगितं । तत्त्रेधा-गुर्वचित्तपिहितं, सचित्तपिहितं, मिश्रपिहितं चेति ४ । संहृतं नाम येन हस्तेन मात्रकेण वा कृत्वा दात्री साधोरशनादिकं दातुमिच्छति । तत्राऽन्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति । ततस्तदन्यत्र भूम्यादौ सचित्तेऽचित्ते मिश्रे वा क्षिप्त्वा तेन हस्तेन मात्रकेण वा यद्ददाति। अत्र सचित्ताचितमिश्रभेदैश्च तिस्रश्चतुर्भङ्ग्यो भवन्ति । तथाहि- एका चतुर्भङ्गी सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां । तृतीया मिश्राचित्तपदाभ्याम् । तत्र सचित्ते सचित्तं संहृतं, मिश्रे सचित्तं, सचित्ते मिश्र, मिश्रे मिश्रं चेति प्रथमा । सचित्ते सचित्तम्, अचित्ते सचित्तम्, सचित्तेऽचित्तम्, अचित्तेऽचित्तम् इति द्वितीया । तथा मिश्रे मिश्रम, अचित्ते मिश्रम, मिश्रेऽचित्तम्, अचित्तेऽचित्तमिति तृतीया । अत्र प्रथमायाः सर्वेष्वपि भङ्गेषु न कल्पते, द्वयोस्त्वाद्येषु त्रिषु त्रिषु प्रतिषेधश्चरमे पुनर्भजना । अत्र सचित्तः पृथिवीकायः सचित्ते पृथ्वीकाये संहृतः, सचित्ताप्काये वा संहृत इत्यादि