________________
...५०...
सड्ड- जीयकप्पो 'पुबिंपच्छासंथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ।।
(पिं०नि० ४३९) अनयोर्व्याख्या-धात्र्यः बालकपरिपालिकाः । ताः पञ्च क्षीर-मज्जन-मण्डन-क्रीडना-धात्र्यः । तासां कर्म धात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः १। दूती परसन्दिष्टार्थकथिका । तस्याः कर्म दौत्यं तेन स्वग्रामे परग्रामे वा सन्दिष्टार्थकथनरूपेण प्राप्तः पिण्डो दूतीपिण्डः २। कालत्रयसंसूचकलाभालाभशुभाशुभादिसंसूचक निमित्तकथनेन प्राप्तः पिण्डो निमित्तपिण्डः ३ । आजीवनापिण्डो जातिकुलगणशिल्पकर्मभेदतः पञ्चधा । तत्र जातिकुले पूर्वोदितस्वरूपे । गणो-मल्लादिवृन्दम् । शिल्पं-तूर्णनसीवनादि, कर्म-कृष्यादि, अथवाऽप्रीत्युत्पादकं कर्म प्रीत्युत्पादकं तु शिल्पम् । अन्ये त्वाहुरनाचार्योपदिष्टं कर्म आचार्योपदिष्टं तु शिल्पमिति । एतैरात्मनो गृहस्थस्य च तुल्यरूपताख्यापनेन लब्धः पिण्ड आजीवनापिण्डः ४ । वनीपको भिक्षाचरस्तद्वत् पिण्डार्थं श्रमणातिथिब्राह्मणकृपणश्वानादिभक्तानां दायकानामात्मानं तत्तद्भक्तं दर्शयन् यल्लभते स वनीपकपिण्डः ५ । चिकित्सापिण्डो द्वेधा-सूक्ष्म-बादरभेदात् । तत्र वैद्यवत् स्वयं वमनविरेचनादिरोगप्रतीकारविधापनं बादरचिकित्सा तयाऽवाप्तः पिण्डो बादरचिकित्सापिण्डः । वैद्यौषधादिसंसूचनेन सूक्ष्मचिकित्सा तयाऽवाप्तः पिण्डः सूक्ष्मचिकित्सापिण्डः ६ । साधोर्विद्यानभावम्- उच्चाटनमारणादिकं तपःप्रभावं-शापदानादिकम् राजकुले वल्लभत्वं क्रोधफलं वा ज्ञात्वा गृहस्थेन यः पिण्डो दीयते स क्रोधपिण्डः ७ । अभिमानेन हठादपि यः पिण्डो गृह्यते स मानपिण्डः ८ । नानाविधविप्रतारणप्रकारैर्यः पिण्डो लभ्यते स मायापिण्डः ९ । वल्लचणकादिकमसारं लभ्यमानं प्रतिषिध्य यन्मोदकादिसारमेव प्रतिगृह्णाति अथवा प्रचुरं मधुरस्निग्धादि वस्तु लभ्यमानं दृष्ट्वा यबहु गृह्णाति स लोभपिण्डः १० । संस्तवो द्विधा-श्लाघारूपः परिचयरूपश्च । तत्र श्लाघारूपो वचनसंस्तवः, परिचयरूपः-सम्बन्धिसंस्तवः । एकैको द्विधा-पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र पूर्वं यद्दातारं स्तुत्वा, याचते, लब्धे वा पश्चात् स्तौति स पूर्वसंस्तवः पश्चात्संस्तवश्च श्लाघारूपः । सम्बन्धिसंस्तवो मात्रादिनात्रकयोजनं पूर्वसंस्तवः श्वश्वादिसम्बन्धयोजनं तु पश्चात्संस्तवः ११ । स्त्रीदेवताऽधिष्ठिता ससाधना वा विद्या तत्प्रयोगेण लब्धः पिण्डो विद्यापिण्डः १२ । पुरूपदेवताधिष्ठितोऽसाधनो वा मन्त्रः तत्प्रयोगेणाप्तः पिण्डो मन्त्रपिण्डः १३ । चूर्णमञ्जनादि तदर्पणादिना प्राप्तः पिण्डञ्चूर्णपिण्डः १४ । योगः पादप्रलेपादिः तत्करणार्पणादिना लब्धः पिण्डो योगपिण्डः १५। मङ्गलमूलिका-स्नपनकगर्भाधान-गर्भस्तम्भ- प्रसव-पातनमूलरक्षाबन्धनादिभिर्लब्धः पिण्डो मूलकर्मपिण्डः । एष च महापातकः । यदुक्तम् - 'मंगलमूलीण्हवणाइ गभवीवाहकरणघायाई । भववणमूलकम्मं ति मूलकम्मं महापावं ' ।।
(पिं०वि० ७५) १६। उक्ताः षोडशोत्पादना दोषाः । अथ दश ग्रहणेषणादोषानाह -