________________
...४९...
सड्डू - जीयकप्पो पार्ष्णिभ्यां च पादाभ्यामूर्ध्वविलगितसिक्किकादिस्थं दात्र्या दृष्टेरगोचरं यद्दीयते तज्जघन्यम् । मञ्चकादिकमारुह्य यद्दीयते तन्मध्यमम् । निःश्रेण्यादिकमारुह्य यद्दीयते तदुत्कृष्टम् १३ । आच्छेद्यं त्रिधा-स्वामिप्रभुस्तेनभेदात् । तत्र स्वामी - गृहादिनायकः, प्रभु - गृहपतिस्तौ स्वायत्तमानुषेभ्यः, स्तेना–श्चौरास्ते सार्थिकादिभ्यो बलादाच्छिद्योद्दाल्य यद्ददाति तदाच्छेद्यम् १४ । अनिसृष्टमपि त्रिविधं— साधारणचोल्लकजड्डभेदतः । तत्र साधारणराद्धं भक्तं सर्वेषामननुज्ञातमेवैकादेर्ददतः साधारणानिसृष्टम् । चोल्लको—भोजनं यत्कौटुम्बिकप्रेषितहालिकयोग्यचोल्लकमध्यात् कौटुम्बिकस्याननुज्ञयैव चोल्लकवाही यत् साधवे ददाति तच्चोल्लकानिसृष्टम् । जड्डो – हस्ती तत्सत्कं पिण्डादिकं राज्ञा गजेन वाऽननुज्ञातमेव यद्ददाति तज्जड्डानिसृष्टम् १५ । अध्यवपूरको नाम यत्राग्निसन्धुक्षणस्थालीजलप्रक्षेपाद्यारम्भे यावदर्थिकाद्यागमनात् पूर्वमेवात्मार्थं निष्पाद्यते पश्चाद् यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरास्तन्दुलाः सह राद्धुं स्थाल्यां प्रक्षिप्यन्ते सोऽध्यवपूरकः । अत एव चास्य मिश्रजाताद् भेदः । यतो मिश्रजातं तदुच्यते यत् प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते । यत् पुनः प्रथमतः स्वार्थमारभ्यते पश्चात् प्रभूतान् यावदर्थिकादीनागतानवगम्य तदर्थाय यदधिकतरजलतन्दुलादिप्रक्षेपः सोऽध्यवपूरकः । स च यावदर्थिकमिश्रः पाखण्डिमिश्रो यतिमिश्रश्चेति १६ । एते षोडशोद्गमदोषा भवन्ति । एतेषु च आधाकर्म औद्देशिकभेदत्रयम् भक्तपानपूतिः मिश्रजातान्त्यभेदद्वयं बादरप्राभृतिका अध्यवपूरकान्त्यभेदद्वयं चाविशुद्धिकोटिः । यदुक्तम्–
'इअ कम्मं उद्देसिअतिअ मीसज्झोयरंतिमदुगं च । आहारपूइ बायरपाहुडि अविसोहिकोडित्ति' ।। ( पिं०वि० ५३ ) तदवयवेनापि स्पृष्टं सर्वमन्नपानाद्यशुचिलवेनेवाभोज्यं भवति । यदुक्तम् - ‘उग्गमकोडिकणेणवि असुइलवेणं व जुत्तमसणाई । सुद्धपि होइ पूई तं सुहुमं बायरंति दुहा' ।। ( पिं०वि० ३२ ) शेषास्तु विशुद्धिकोटयः । तत्सम्पृक्तं चान्नपानादि पुनः संस्तरे साधवः सर्वमेव त्यजन्ति । असंस्तरे तु विविच्य तदेव त्यजन्ति । तक्रादिरसमध्ये क्षेपे तावन्मात्रमेव वा तद्वस्तु त्यजन्ति । यदुक्तम् - 'तं चेव असंथरणे संथरणे सव्वमवि विगिंचंति । दुल्लहदव्वे असढा तत्तियमित्तं
-
चिय चयन्ति ' ' ॥ ( पिं०वि० ५६ )
उक्ताः षोडशोद्गमदोषाः । अथ षोडशोत्पादनादोषानाह
'धाई दूई निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए' ।। ( पिं०नि० ४३८)