________________
सड - जीयकप्पो षड्जीवनिकायचारणिकया स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भङ्गे षट्त्रिंशद् षट्त्रिंशद् भङ्गा भवन्ति । ते च सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानां भवन्ति । एते च सर्वेऽपि भङ्गा नैरन्तर्येण च भवन्ति । तत्र चैतेषु सर्वेष्वपि निरन्तर-परम्परसंहृतभङ्गेषु यत्र यत्र सचित्तसङ्घट्टनादिर्दोषस्तत्र तत्र न कल्पते । अन्यत्र तु कल्पते । एतत्सर्वं निक्षिप्तपिहितयोरप्यवगन्तव्यमिति । दायकः स्थविरादिरित्येवंविधो दोषः । स्थविरादिभिर्दीयमाने दायकदोषो भवतीत्यर्थः । तदुक्तम् - 'थेरऽपहु-पंड वेविर-जरि-अंधऽव्वत्त-मत्त-उम्मत्ते । छिन्नकरचरण -गुम्विणि-नियलंडुअबद्ध-बालवच्छाए।। खंडइ पीसइ भुंजइ जिमइ विरोलइ दलइ सजिअं । ठवइ बलिं उवउत्तइ पिढराइ तिहा सपच्चवाया जा ।। साहारण-चोरियगं देइ परक्कं परटुं वा । कत्तइ लोढइ पिंजइ विक्खिणइ पगलंतपाउयारूढे' ।।३।।
(पिं०वि० ८५ तः ८८) एतासां लेशतो व्याख्या-स्थविरो वृद्धः । सप्ततिवर्षाणां मतान्तरे षष्टिवर्षाणां वोपरिवर्ती । स्थविरस्य च हस्तेन भिक्षाग्रहणे निपतनषड्जीवनिकायविराधनादिदोषा भवेयुः । अतस्तद्धस्तेनोत्सर्गतो न ग्राह्यम् १ । तथा अप्रभुर्दीयमानभक्तादेरस्वामी भृतकादिः । तेन दीयमाने प्रभोरप्रीतिः स्यात् २ । पण्डको नपुंसकस्तस्मिन् दायके लोकापवादशङ्कादिदोषाः ३ । वेपमानः कम्पमानशरीरः । तद्दाने परिशटन-भाजनभङ्गादिदोषाः ४ । ज्वरितो ज्वररोगपीडितः । ततो भिक्षाग्रहणे ज्वरसङ्क्रमणजनापवादादयो दोषाः ५ । अन्धः चक्षुर्विकलः । तस्य हि भिक्षां ददतः कायवधस्खलनपतनभाजनबहिर्भक्तक्षेपणजनवचनीयतादयो दोषाः ६ । अव्यक्तो बालो जन्मतो वर्षाष्टकाभ्यन्तरवर्ती । तेन दीयमाने तज्जनन्यादेः प्रद्वेषः ७ । मत्तः पीतमदिरादिः । स चाशुचित्वालिङ्गनहननभाजनभङ्गकरणादिदोषदुष्टत्वात्साधुभिक्षादानाऽयोग्यः ८ । उन्मत्तो दृप्तो ग्रहगृहीतो वा सोऽपि मत्तवद्दुष्टः९। छिन्नकरः कर्त्तितहस्तः छिन्नचरणो लूनपादः। एताभ्यां च सकाशाद्भिक्षा न ग्राह्या, दानासमर्थत्वाल्लोकापवादादिदोषसम्भवाच्च १०-११ । गुर्विणी आपन्नसत्त्वा । तत्सकाशाद् गच्छनिर्गता जिनकल्पिकादयः प्रथमदिनादारभ्य भिक्षां न गृह्णन्त्येव । स्थविरकल्पिकास्त्वष्टौ मासान् यावद् गृह्णन्ति, नवमे मासे तु न गृह्णन्ति, निषीदनोत्थानाभ्यां गर्भपीडासम्भवात् १२ । निगडेन लोहमयपादबन्धनेन बद्धः, अण्डुकेन काष्ठमयकरबन्धनेन बद्धः एताभ्यां सकाशात् परितापनादिदोषसम्भवाद्भिक्षा न ग्राह्या १३-१४। बालवत्सा स्तन्योपजीविशिशुका तया दीयमानं न कल्पते, निक्षिप्तबालस्य मार्जारादिभ्यो विनाशसम्भवात् निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवात् १५ । गाथापर्यन्तवर्ती याशब्दोऽत्र प्रत्येकमभिसम्बध्यते । ततश्च या काचिन्महिला खण्डयति उदूखलक्षिप्तानि शाल्यादिबीजानि