________________
सट्ट- जीयकप्पो
| ...४६... मित्यतोऽत्राऽसम्भवीति नोक्तम् । एते चत्वारो विकल्पास्त्रिषष्टिमध्ये क्षिप्यन्ते जाताः सप्तषष्टिः । विकल्पार्थश्चैवम्-को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं तेन ? । एवमसदादयोऽपि वाच्याः। उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति ? । को जानातीत्येतन्न कश्चिदपीत्यभिप्रायः ।
'वेणइयाणंच बत्तीस 'त्ति । वैनयिकानां द्वात्रिंशद् भेदाः । तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशदमुनोपायेनावगन्तव्याः । सुर-नृपति-ज्ञाति-यति-स्थविर-अधम-मातृ-पितण-प्रत्येकं कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेषु भवन्ति । अष्ट चतुर्भिर्गुणिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां मिलने त्रीणि शतानि त्रिषष्ट्यधिकानीतिरूपा परदर्शनिनां भवतीत्यलं प्रसङ्गेन । अथ प्रकृतं प्रस्तूयते- 'मिच्छप्पभावण'' त्ति । मिथ्यात्वसम्बन्धिदेवकुलादौ प्रभावनायाम् । तथा'असंजमथिरत्ते' 'त्ति । असंयमेऽसंयमवतां पार्श्वस्थादीनां कुलिङ्गिनां चाधानुष्ठानविषये स्थिरीकरणे च देशतश्चतुर्लघु प्रायश्चित्तं भवति 'संयमऽथिरत्ते' त्ति पाठे तु संयमे संयमवतां साध्वादीनां धर्मानुष्ठानास्थिरीकरणे च देशतश्चतुर्लघु भवतीति प्रथमगाथार्थः । 'तह संघाणुववूहाइसु ' त्ति। तथेत्युपन्यासे । सङ्घानुपबृंहायां सङ्घस्योपबृंहणाद्यकरणे, आदिशब्दात् स्थिरीकरण-वात्सल्य-प्रभावनानामकरणे च 'देसे चउलहु ' त्ति । देशतश्चतुर्लघु । 'गुरुग सव्वे' त्ति । सर्वत एतेषु शङ्कादिषु कृतेषु चतुर्गुरु। 'गुरुगो अ ममत्ताइसु ' त्ति । तथा पार्श्वस्थादिषु ममत्वं प्रतिबन्धरूपं कुर्वतो गुरुमासः आदिशब्दात् परिपालन-संवास-सूत्रार्थदानादानादिष्वपि गुरुमासः निष्कारणमिति गम्यते । कारणे तु ममत्वादिकरणेऽपि न दोषः। 'लहु-गुरु-चउलहु तिविहमिच्छे । त्ति। त्रिविधेऽपि- जघन्यमध्यमोत्कृष्टभेदभिन्नेऽपि मिथ्यात्वे यथाक्रम लघुगुरुचतुर्लघूनि प्रायश्चित्तानि भवन्तीति गाथार्थः ।।५७-५८।।
अथ आधाकर्मादिदोषदुष्टमन्नपानादि ददानस्य श्राद्धस्य प्रायश्चित्तप्रतिपादनावसरस्तत्र पूर्वं किञ्चिदाधाकर्मादिस्वरूपं ग्रन्थान्तरतो लिख्यते-इह किल सप्तचत्वारिंशद् भिक्षादोषास्तद्यथाषोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः पञ्च ग्रासैषणादोषाः । तत्र उद्गमदोषा गृहस्थप्रभवाः षोडश । तद्यथा