________________
सड्डू -
...४५...
• जीयकप्पो विकल्पः स्वभाववादिनः । एवं स्वत इत्यनेन लब्धाः पञ्च विकल्पाः । एवं परत इत्यनेनापि पञ्चैव लभ्यन्ते । एते च नित्यत्वापरित्यागेन दश विकल्पाः । एवमनित्यत्वेनापि दशैव । एकत्र मिलिता विंशतिर्जीवपदार्थेन लब्धाः । एवमेवाजीवादिष्वष्टस्वपि प्रतिपदं विंशतिविकल्पानां भावाद्विंशतिर्नवगुणिता जातमशीत्युत्तरं शतं क्रियावादिनामिति ।
'अकिरियवाईण होइ चुलसीई ' ' त्ति । अक्रियावादिनां चतुरशीतिः । तत्र न कस्यचित् प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरमेव विनाशादिति ये वदन्ति, ते अक्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः । कोकुलकांठेविद्धि रोमक - सुगत - प्रमुखाः । तथा चाहुरेके -
‘क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारणं सैव चोच्यत' ।। इत्यादि । तेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या । पुण्यापुण्यवर्जितशेषजीवादिपदार्थसप्तकन्यासः । तस्य चाधः प्रत्येकं स्वपरभेदौ असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः । कालादीनां च पञ्चानामधस्तात् षष्ठी यदृच्छा न्यस्यते । इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनः, ततः प्राक् यदृच्छा नोपन्यस्ता । तत एव विकल्पाभिलापः - 'नास्ति जीवः स्वतः कालत' ' इत्येको विकल्पः । एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे च षट् विकल्पाः । तथा 'नास्ति जीवः परतः कालत इति षडेव विकल्पाः ' ' एकत्र मिलिता द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः । ततः सप्त द्वादशगुणाश्चतुरशीतिविकल्पाश्चाक्रियावादिनां नास्तिकानामिति ।
'अन्नाणि य सत्तट्ठी' ' त्ति । अज्ञानिकानां सप्तषष्टिर्भेदाः । तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः 'अतोऽनेकस्वरादि ' ति मत्वर्थीय इकप्रत्ययः । अथवा - अज्ञानेन चरन्तीत्यज्ञानिका: । असञ्चिन्त्य कृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः सप्तषष्टिः । ते चामुनोपायेन ज्ञातव्याः । तत्र जीवादिनवपदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः। ते चामी— सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वं सदवाच्यत्वम् असदवाच्यत्वं सदसदवाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वम् । असत्त्वं पररूपेणाविद्यमानत्वम् । सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्य— मानत्वम् । तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकशब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इत्यवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चावाच्यो युगपद् विवक्ष्यते तदा सदवाच्यत्वम् । यदा त्वेको भागोऽसन् परश्चावाच्यस्तदाऽसदवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चासन्नपरतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति । ततः सप्त नवभिर्गुणितास्त्रिषष्टिः । उत्पत्तेस्तु चत्वार एव विकल्पाः । ते चामी -सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति । शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्ष
-