________________
सङ्घ- जीयकप्पो आर्यखपुटाचार्यवत् ८। राजगणसम्मताश्च । तत्र राजसम्मता मन्त्र्यादयः, गणसम्मता महत्तरादयः चशब्दाद्दानश्राद्धादिपरिग्रहः । एते तीर्थं प्रवचनं प्रभावयन्ति । स्वतः प्रकाशकस्वभावमेव सहकारितया प्रकाशयन्तीति । कुतीर्थिकविषया त्वप्रशस्ता ८। इह चोपबृंहादीनां प्रशस्तानां यथाशक्त्यकरणे अप्रशस्तानां तु करणे अतिचारता । देशसर्वभेदश्चोपळहादीनामपि शङ्कादीनामिव ज्ञेयः। अथ गाथाव्याख्याशङ्कादिषु शङ्काकाङ्क्षाविचिकित्सासु 'देशे चउलहु'' इत्येतस्य द्वितीयगाथास्थस्य सर्वत्र योगाद्देशतश्चतुर्लघु तथा 'मूढदिट्ठी य'' त्ति । मूढदृष्टित्वे ‘पासत्थाई'' त्ति । पार्श्वस्थावसन्नादयो द्रव्यलिङ्गिनो मुनयः, कुदृष्टयो मिथ्यादृष्टयः परतीर्थिकाः तेषां वात्सल्ये । तथा तैः सह संस्तवेऽतिपरिचये। प्रशंसायां मिथ्यादृष्ट्यादीनामुपबृंहणायां च देशतश्चतुर्लघु । इह किल मिथ्यादर्शनिनोऽपरिमितास्तदुक्तं सम्मतिसूत्रे श्रीसिद्धसेनदिवाकरण'जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमया' ।।।
(संमतिसूत्रम् १४४) यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकारास्तावन्त एव परसमयाः परदर्शनानि भवन्ति, स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानाम् । अयं भावः-यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव । स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्सङ्ख्यापरिमाणत्वादिति । तदेवं गणनातिगा मिथ्यादर्शनिनो भवन्ति । यद्वा-सूत्रकृताख्ये द्वितीयेऽङ्गे परप्रावादुकानांपरदर्शनिनां त्रीणि शतानि त्रिषष्ट्यधिकानि परिसङ्ख्यायन्ते । तदर्थसङ्ग्रहगाथेयम् - 'असीइसयं किरिआणं अकिरिअवाईण होइ चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा'' ।।
(गाथासहस्री ११६) अस्या लेशतोऽक्षरगमनिका- 'असीइसयं किरियाणं'' त्ति । अशीत्युत्तरं शतं क्रियावादिनाम् । तत्र क्रियां-जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनो मरीचि-कुमार-माठरोलूकप्रभृतयः । ते पुनरमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः । जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नवपदार्थान् परिपाट्या पट्टकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ । तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः कर्त्तव्याः'अस्ति जीवः स्वतो नित्यः कालत'' इत्येको विकल्पो, विकल्पार्थश्चायं खलु-अयमात्मा खेन रूपेण नित्यश्च कालवादिनां मत इति । उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकः । तृतीयो विकल्प आत्मवादिनः 'पुरूष एव इदं सर्वम्'' इत्यादि । चतुर्थो विकल्पो नियतिवादिनः । पञ्चमो